Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
: ५९० :
तत्त्वन्यायविभाकरे
[ द्वितीयकिरणे
खनं चक्षुषा निरीक्षणं प्रमार्जन रजोहरणादिभिरिति भेदेऽपि अविनाभावित्वेन तयोः प्रतिलेखना शब्देनैव लक्षितं मूलेन । इति प्रातः प्रतिलेखना भाव्या । ततश्चरमपौरुष्यां प्राप्तायां पात्राणि प्रतिलेख्यानि तृतीयप्रहरान्ते मुखवस्त्रिकाचोलपट्टगोच्छक पात्र प्रतिलेखनिकापात्रबन्धपटलरजस्त्राण पात्रस्थापनमात्रकपतग्रहरजोहरणकल्पत्रिकाण्यनुक्रमं प्रत्युपेक्षणी5 यानि, तथाऽन्योऽप्यौपग्रहिकोपधिः, प्रत्युपेक्षणीयः । उद्घटापौरुष्याश्च सप्तविधपात्रनिर्योगप्रत्युपेक्षणा भवति, तत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजस्त्राणं ततः पात्रं ततः पात्रस्थापनमिति, अत्र अरुणादावावश्यकं पूर्वमेव कृत्वा तत अरुणोद्गमसमये प्रत्युपेक्षणा क्रियते । अपरे त्वाद्दुः अरुणे उद्गते सति प्रभायां स्फुटितायां सत्यामावश्यकं पूर्वं कृत्वा ततः प्रत्युपेक्षणा 10 क्रियत इति, अन्ये त्वाहुर्यदा परस्परं मुखानि विभाव्यते तदा प्रत्युपेक्षणा क्रियत इति, इतरे
वाहुर्यस्यां वेलायां पाणिरेखा दृश्यन्ते तदानीमिति, वेलायाच न्यूनायामधिकायां वा प्रत्युपेक्षणान कार्या, तत्र जिनकल्पिकाना मोघोपधिर्द्वादशविधः, स्थविरकल्पिकानां चतुर्दशविधः, आर्याणां पञ्चविंशतिविधः । अत ऊर्ध्वं यथासम्भवमौ पग्रहिको पधिर्भवति,
तत्र प्रतिलेखनाक्रमो विधियुत आगमादौ सुस्पष्टमुपपादितोऽत्र तु केवलं स्थानाशू15 न्यार्थं तस्या वाक्योच्चारणात्मिकाया विशेषमादर्शयति.
सा च सूत्रार्थतत्त्वश्रद्धानसम्यक्त्वमिश्रमिथ्यात्वमोहनीयवर्जन का -
मस्नेहदृष्टिरागपरिहारशुद्धदेवगुरुधर्मादरकुदेव कुगुरुकुधर्मपरिवर्जनज्ञानदर्शनचारित्रादरज्ञानदर्शन चारित्रविराधनापरिहार मनोवचन काय गुप्त्यादरमनोवाक्कायदण्डपरिहाररूप भावनागर्भितवचनोच्चारणपूर्वकत्रस्त्रादिनि20 रीक्षणप्रमार्जनरूपा पञ्चविंशतिप्रकारा विज्ञेया ॥
सा चेति । यच प्रतिलेखनोपकरणविषया, सूत्रतदर्थयोः तत्त्वतः श्रद्धानमेकं सम्यक्त्वमिश्रमिथ्यात्वमोहनीयानां वर्जनात्मकानीति त्रीणि, कामस्नेहदृष्टीनां रागस्य परिहार इति त्रीणि, शुद्धा ये देवगुरुधर्मास्तेषामादर इति त्रीणि, कुदेव कुगुरुकुधर्माणां परिवर्जन मिति : त्रीणि, ज्ञानदर्शनचारित्राणामादर इति त्रीणि, ज्ञानदर्शनचारित्राणां विराधनायाः परिहार 25 इति त्रीणि, मनोवचनकायानां गुप्तेरादर इति त्रीणि मनोवाक्कायानां दण्डस्य परिहार इति त्रीणि, सर्वेषां मेलनेन पञ्चविंशतिवचनानामुच्चारणपुरस्सरं भावनया पञ्चविंशतिविधानां वस्त्रादीनां निरीक्षणपूर्वकं प्रमार्जनं विधेयमिति भेदानेतानादाय पञ्चविंशतिप्रकारा प्रतिलेखना प्रोक्ता, स्वसमये एषा सुप्रसिद्धेति नात्र विशेषतो विचार उपन्यस्यते ॥

Page Navigation
1 ... 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676