Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 643
________________ पसम्पावरिभाकरे [तीवपिर विशिष्टेति । विशिष्टं द्रव्यं लेपवज्जुगार्यादि तन्मिभं अलेपवद्वा मण्डकादिद्रव्यमद्य ग्रहीष्यामि दर्वीकुन्तादिना, अथवा यद्यहं कुल्माषबाकुलान् शूपैंककोणस्थान लप्स्ये तान् ग्रहीष्यामि नान्यथेत्येवमादिरूपो द्रव्यविषयो नियम इत्यर्थः । क्षेत्राभिग्रहमाह विशिष्टक्षेत्रेति, निगडनियंत्रितचरणा यद्येकं पादमुदुम्बरस्य मध्ये द्वितीयं च बहिष्टादात्री करिष्यति तदाहं 5 भिक्षा ग्रहीष्यामि नान्यथेत्यादिरूप इत्यर्थः । कालाभिग्रहमाचष्टे विशिष्टकालेति, यदि दिवसद्वितीयपौरुष्यामतिक्रान्तायां दास्यति तदा भिक्षा ग्रहीष्यामि नान्यथेत्येवंरूप इत्यर्थः । भावाभिग्रहमाह विशिष्टभावेति, उत्क्षिप्तचरकाः, संख्यादत्तिका इष्टलाभिकाः पृष्टलाभिका इत्यादयः, त एते गुणगुणिनोः कथञ्चिदभेदाद्भावयुता अभिग्रहा भवन्ति, यद्वा गायन यदि दास्यति तदा मया ग्रहीतव्यं, एवं रुदन् वा, निषण्णो वा, उत्थितो वा, संप्रस्थितो वा 10 यद्ददाति तद्विषयो योऽभिग्रहः सर्वोऽपि स भावाभिग्रह इत्यर्थः । लेशेनैवं सति प्रयोजने क्रियमाणा मोक्षार्थिभिः करणसप्ततिनिरूपितेत्याहेतीति ।। इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्वन्यायविभाकरस्य स्योपशायां न्यायप्रकाशव्याख्यायां करणसप्ततिनिरूपणं नाम द्वितीयः किरणः ॥ अथ तृतीयः किरणः ॥ अथ चारित्राणां सामायिकादीनां निरूपणे कृतेऽपि प्रकारान्तरेण चारित्रिणस्तानिरूपयितुमाह तद्वान् चारित्रीत्युच्यते। स पञ्चविधः पुलाकबकुशकुशीलनिर्गन्थ20 स्नातकभेदात् ॥ तद्वानिति । करणचरणरूपचारित्रविशिष्ट इत्यर्थः । तस्य भेदानाह पुलाकेति । ... तत्र पुलाकं स्वरूपयति सङ्घादिप्रयोजनाय सबलचक्रवर्तिविध्वंससामोपजीवनज्ञानाद्यतिचाराऽऽसेवनान्यतरेण दोषवान् जिनागमादप्रतिपाती च पुलाकः, स 25 द्विविधः लब्धिपुलाकस्सेवापुलाकश्चेति, देवेन्द्रसम्पत्तिसदृशसम्पत्तिमान लब्धिविशेषयुक्तः पुलाको लब्धिपुलाकः। सेवापुलाकस्तु ज्ञानदर्शनचारित्र लिङ्गयथासूक्ष्मभेदेन पञ्चविधः ।। 15

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676