Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 639
________________ :५८८: तत्वन्यायविभाकरे [ द्वितीयकिरणे रूपा ग्रामादिभ्यो बहिरूप्रमुखशयनाद्यासनस्थितिपूर्वकघोरोपसर्गसहनरूपा प्रतिमा अष्टमी ॥ सप्तेति । सप्त अहोरात्राणि प्रमाणं यस्यास्सा, एकान्तरेति, चतुर्थभक्तेन पानीयपरिवर्जनेन च विशिष्टेत्यर्थः । ग्रामादिभ्य इति, आदिना नगरादीनां ग्रहणं, ऊर्ध्वमुखशयना5 दीति, उत्तानशायित्वमित्यर्थ आदिना पार्श्वशायित्वं निषण्णत्वं वा गृह्यते ॥ एवं नवम्यादीनाह उत्कटिकाद्यासनस्थितिपूर्विका पूर्वोक्तैव नवमी प्रतिमा । गोदोहिका. यासनस्थितिपूर्विका तादृश्येव दशमी प्रतिमा ।। उत्कटिकेति । आदिना दण्डायतिकत्वं गृह्यते, पूर्वोक्तैवैति, तपःपारणकं प्रामादहि10 वृत्तिश्चाष्टमसप्तमरात्रप्रतिमोक्तरूपैवेत्यर्थः । दशमीमाह गोदोहिकेति, गोदोहनप्रवृत्तस्येव पुतयोः पाणिभ्यां संयोगे अग्रपादतलाभ्यामवस्थानक्रिया गोदोहिकासनस्थितिः, तथा वामपादो दक्षिणस्योरोरुपरि दक्षिणपादश्च वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतलस्योपरि वामकरतलं वामकरतलस्योपरि च दक्षिणकरतलमुत्तानं नाभिलग्नश्च यत्र क्रियते तद्वीरासनं तथा वा संस्थितो भवेत् , यद्वा सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिं15 हासनस्येव यदवस्थानं तद्वीरासनं बोध्यम् । आम्रफलवद्वक्राकारेण वा तिष्ठेत्, तथा तपःपारणप्रामबहिर्निवासादिविधिः पूर्ववदेवेत्याह तादृश्येवेनि, इमास्तिस्रः प्रतिमा एकविंशत्या दिवसैर्यान्तीति बोध्यम् ॥ एकादशी द्वादशीश्चाह निर्जलषष्ठभक्तप्रत्याख्यानपूर्विका ग्रामावहिश्चतुरङ्गुलान्तरचरणवि20 न्यसनरूपा प्रलम्बितबाहुकायोत्सर्गकरणात्मिकाऽहोरात्रप्रमाणा प्रति मैकादशी। अष्टमभक्तपानीया ग्रामावहिरीषदवनमितोत्तरकाया एकपुगलन्यस्तदृष्टिकानिमिषनेत्रा सुगुप्तेन्द्रियग्रामा दिव्यमानुषाद्युपसर्गसहनसमर्था कायोत्सर्गावस्थायिन्येकरात्रिकी प्रतिमा द्वादशी ॥ निर्जलेति । जलरहितस्य षष्ठभक्तस्य प्रत्याख्यानं कुर्वन्नित्यर्थः, षष्टभक्तमुपवासद्वयरूपं 25 तपः, तत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षष्ठभक्तप्रत्याख्यानं बोध्यम् । प्रामाहिरिति, ग्रामनगरादिभ्यो बहिश्चतुरङ्गुलान्तरे चरणौ विधाय प्रलम्बितभुजः कायोत्सर्गेऽवतिष्ठेत , षष्ठभक्तप्रत्याख्यानकरणा

Loading...

Page Navigation
1 ... 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676