Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 640
________________ प्रतिलेखना ] न्यायप्रकाशसमलइते : ५८९ : हिनत्रयेणेयं प्रतिमा यातीति भावः । अथ द्वादशीमाहाष्टमभक्तति, यस्यामुपवासत्रयरूपेण पानाहाररहितेनावस्थानं बहिश्च प्रामादेरीषत्कुब्जो नद्यादिदुस्तटीस्थितो वा एकपुद्गलगतदृष्टिर्निर्निमेषलोचनो गुप्तसर्वेन्द्रियो दिव्यमानुषतिर्यग्विहितघोरोपद्रवसहिष्णुः क्रमौ जिनमुद्रया व्यवस्थाप्य कायोत्सर्गावस्थानावस्थितो भवेत् सैकरात्रिकी प्रतिमा, रात्रेरनन्तरमष्टमकरणाचतूरात्रिंदिवमाना स्यादिति भावः ॥ अथेन्द्रियनिरोधमाहतत्तद्विषयेभ्यस्तत्तदिन्द्रियाणां विरमणरूपाः पञ्चेन्द्रियनिरोधाः । तत्तद्विषयेभ्य इति । स्पर्शरसगन्धवर्णशब्दात्मकविषयेभ्य आनुकूल्येन प्रातिकल्येन वा प्राप्तेभ्यस्तत्तदिन्द्रियाणां स्पर्शनरसनघ्राणचक्षुश्श्रोत्ररूपाणां विरमणमासक्तिवैधुर्यमित्यर्थः, इन्द्रियाणां पञ्चविधत्वात्तन्निरोधोऽपि पञ्चविध इत्याशयेनोक्तं पञ्चेति । अनियंत्रितानि हीन्दि- 10 याणि पदे पदे क्लेशमहासागर एव पातयन्तीत्यतस्तन्निरोधोऽवश्यकरणीय इति भावः ।। प्रतिलेखनामाचष्टे आगमानुसारेण वस्त्रपात्रादीनां सम्यनिरीक्षणपूर्वकं प्रमार्जन प्रतिलेखना ॥ आगमेति । लिख अक्षरविन्यास इत्यस्य प्रतिपूर्वकस्य भावे ल्युटि प्रतिलेखनेति 15 प्रयोगः, उपसर्गमहिम्ना धात्वर्थभेदेन शास्त्रानुसारेण वस्त्रादीनां निरीक्षणमर्थः सा च सर्वक्रियामूलभूता, अनेकप्रकारापि सा दिनचर्योपयोग्युपकरणविषयाऽत्रोक्ता वस्त्रपात्रादीति पदेन । कालत्रयभाविनी चैषा, रात्रेश्चतुर्थप्रहरे, दिनस्य तृतीयप्रहरान्ते, उद्घाटपौरुष्याश्चेति, तत्र प्रभाते उत्सर्गादिकरणानन्तरं प्रथमं वस्त्रविषया प्रतिलेखना, सापि मुखपोतिकारजोहरणनिषद्यावयचोलपट्टकल्पत्रिकसंस्तारकोत्तरपट्टरूपाणां दशानां भवति, दण्डकमपीति केचित्। 20 अनुद्गत एव सूर्ये विधेयम् , तत्रोत्कटिकासनस्थो मुखपोतिको प्रतिलिख्य प्रकाशदेशस्थो रजोहरणं प्रतिलिखति तत्र प्रभाते आन्तरी सूत्रमयीं निषधामपराहे तु बाह्यामूर्णामयी प्रतिलिखेत् , ततश्चोलपढें ततस्त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थाने संस्थाप्य । मुखवलिको प्रतिलिखेत् , ततश्चैकेन क्षमाश्रमणेनोपधिसन्देशमाप्य द्वितीयेन तेनोपधि प्रति.. लिखेत् , तत्र पूर्वमौणं कल्पं ततस्सौत्रं कल्पद्वयं ततस्संस्तारकं ततश्चोत्तरपट्टमिति प्रतिलेख- 25 नाक्रमः । उपयुक्तस्सन्नेषां प्रत्युपेक्षणां कुर्यात् , तथा च षण्णामाराधको भवति, अकरणे च दोषाः । ततश्च जाते सूर्योदये शेषमप्युपधि प्रतिलिख्य वसतिं ततो दण्डं प्रमार्जयेत् , प्रतिले

Loading...

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676