________________
:५८८: तत्वन्यायविभाकरे
[ द्वितीयकिरणे रूपा ग्रामादिभ्यो बहिरूप्रमुखशयनाद्यासनस्थितिपूर्वकघोरोपसर्गसहनरूपा प्रतिमा अष्टमी ॥
सप्तेति । सप्त अहोरात्राणि प्रमाणं यस्यास्सा, एकान्तरेति, चतुर्थभक्तेन पानीयपरिवर्जनेन च विशिष्टेत्यर्थः । ग्रामादिभ्य इति, आदिना नगरादीनां ग्रहणं, ऊर्ध्वमुखशयना5 दीति, उत्तानशायित्वमित्यर्थ आदिना पार्श्वशायित्वं निषण्णत्वं वा गृह्यते ॥
एवं नवम्यादीनाह
उत्कटिकाद्यासनस्थितिपूर्विका पूर्वोक्तैव नवमी प्रतिमा । गोदोहिका. यासनस्थितिपूर्विका तादृश्येव दशमी प्रतिमा ।।
उत्कटिकेति । आदिना दण्डायतिकत्वं गृह्यते, पूर्वोक्तैवैति, तपःपारणकं प्रामादहि10 वृत्तिश्चाष्टमसप्तमरात्रप्रतिमोक्तरूपैवेत्यर्थः । दशमीमाह गोदोहिकेति, गोदोहनप्रवृत्तस्येव
पुतयोः पाणिभ्यां संयोगे अग्रपादतलाभ्यामवस्थानक्रिया गोदोहिकासनस्थितिः, तथा वामपादो दक्षिणस्योरोरुपरि दक्षिणपादश्च वामस्योरोरुपरि यत्र क्रियते दक्षिणकरतलस्योपरि वामकरतलं वामकरतलस्योपरि च दक्षिणकरतलमुत्तानं नाभिलग्नश्च यत्र क्रियते
तद्वीरासनं तथा वा संस्थितो भवेत् , यद्वा सिंहासनोपविष्टस्य भून्यस्तपादस्यापनीतसिं15 हासनस्येव यदवस्थानं तद्वीरासनं बोध्यम् । आम्रफलवद्वक्राकारेण वा तिष्ठेत्, तथा
तपःपारणप्रामबहिर्निवासादिविधिः पूर्ववदेवेत्याह तादृश्येवेनि, इमास्तिस्रः प्रतिमा एकविंशत्या दिवसैर्यान्तीति बोध्यम् ॥
एकादशी द्वादशीश्चाह
निर्जलषष्ठभक्तप्रत्याख्यानपूर्विका ग्रामावहिश्चतुरङ्गुलान्तरचरणवि20 न्यसनरूपा प्रलम्बितबाहुकायोत्सर्गकरणात्मिकाऽहोरात्रप्रमाणा प्रति
मैकादशी। अष्टमभक्तपानीया ग्रामावहिरीषदवनमितोत्तरकाया एकपुगलन्यस्तदृष्टिकानिमिषनेत्रा सुगुप्तेन्द्रियग्रामा दिव्यमानुषाद्युपसर्गसहनसमर्था कायोत्सर्गावस्थायिन्येकरात्रिकी प्रतिमा द्वादशी ॥
निर्जलेति । जलरहितस्य षष्ठभक्तस्य प्रत्याख्यानं कुर्वन्नित्यर्थः, षष्टभक्तमुपवासद्वयरूपं 25 तपः, तत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते, एकाशनेन च तदारभ्यते तेनैव च
निष्ठां यातीत्येवं षष्ठभक्तप्रत्याख्यानं बोध्यम् । प्रामाहिरिति, ग्रामनगरादिभ्यो बहिश्चतुरङ्गुलान्तरे चरणौ विधाय प्रलम्बितभुजः कायोत्सर्गेऽवतिष्ठेत , षष्ठभक्तप्रत्याख्यानकरणा