________________
प्रतिमाः] न्यायप्रकाशसमलङ्कते
:५८७ : ष्टस्थानावस्थितदात्रविच्छिन्नसकृत्प्रदत्तानपानपरिग्रहा एकमासिकी प्र. तिमा। एवं द्विमासादि यावत्सप्तमासं विशिष्टस्थानावस्थितव्यत्त्या क्रमेण द्वित्रिचतुःपञ्चषट्सप्तवारं प्रदत्तानपानपरिग्रहणरूपाः षट् प्रतिमा भाव्याः ॥
विशिष्टेति । भिक्षोरुद्गमोत्पादनैषणादिशुद्धभिक्षाशीलस्य प्रतिमा प्रतिज्ञाविशेषः, 5 भिक्षुशब्दस्वरसात्सा प्रतिज्ञाऽऽहारविषया ग्राह्या, तथा च विशिष्टस्य तपस आहारादिनियमनरूपस्याभिग्रहः प्रतिज्ञाविशेषो भिक्षुप्रतिमेत्यर्थः । तस्या भेदानाह सा चेति, मासिकी द्वैमासिकी त्रैमासिकी चातुर्मासिकी पञ्चमासिकी पाण्मासिकी सप्तमासिकी प्रथमसप्तरात्रिदिवा द्वितीयसप्तरात्रिंदिवा तृतीयसप्तरात्रिंदिवाऽहोरात्रिकी एकरात्रिकी चेति द्वादशविधा सेत्यर्थः । तत्र मासिकीमाद्यां प्रतिमा वक्ति आमासमिति, यावन्मासपरिसमाप्तीत्यर्थः, 10 विशिष्टेति, विशिष्टस्थानेऽवस्थितेन दात्राऽविच्छिन्नरूपेण सकृदेव दत्तस्यान्नस्य पानस्य च । परिग्रहरूपेत्यर्थः, एलूकस्यापवरकस्यैकं पादमन्तः परं बहिर्यवस्थाप्य ददत्या नो गुर्विण्या नो बालवत्साया नवा बालकं क्षीरं पाययन्त्या हस्तेनाहारोऽत्र ग्रहीतुं कल्पते, एका अशनस्य पानीयस्य चैका दत्तिरेव ग्राह्या, दत्तिश्च करस्थाल्यादिभ्योऽव्यवच्छिन्नधारया या भिक्षा. पतति सा, भिक्षाविच्छेदे च द्वितीया दत्तिर्भवति, प्रतिमामेनां प्रतिपन्नो भिक्षुर्नित्यं परिकर्म: 15 वर्जनाव्युत्सृष्टकायः, देवमानुषतिर्यग्योनिकृतपरिषह्याणामविकृतभावेन सहनशीलः क्षमी. भवेत् , नियमविशेषा अधिका आगमेभ्यः प्रतिपत्तव्याः। ईदृशक्रमविशेषेण द्वैमासिकी, त्रैमासिकी चातुर्मासिकी पश्चमासिकी पाण्मासिकी सप्तमासिकी च प्रतिमा विज्ञेयाः, परन्तु प्रथमातो द्वैमासिक्यादिषु एकैकदत्तिवृद्धिर्भवेदित्याशयेनाह एवमिति ॥ -- अथाष्टमीमाह
सप्ताहोरात्रप्रमाणा एकान्तरनिर्जलोपवासात्मिका आचाम्लपारणा
20
१. भावभिक्षुर्द्विधा नोआगमत आगमतश्च, आगमतो भिक्षुशब्दार्थस्य ज्ञाता, उपयोगो भावनिक्षेप इति वचनात् , नोआगमतः संयतः भिक्षणशीलों भिक्षुरिति व्युत्पत्तेः, ननु भिक्षणशीलत्वं रकपटादावतिव्याप्तं तेषां भिक्षाजीवित्वेन भिक्षणशीलत्वात् , मैवं, तेषामनन्यगतिकत्वेन भिक्षाशीलत्वात् , ' अयम्भावः शब्दस्य निमित्तं द्विविधं व्युत्पत्तिनिमित्तं प्रवृत्तिनिमित्तमिति, यथा गोशब्दस्य गमनक्रिया व्युत्पत्तिमिमित्तं, तदुपलक्षितञ्च सास्नादिमत्त्वं प्रवृत्तिनिमित्तं, तेन गच्छत्यगच्छति वा गवि गोशब्दः प्रवर्त्तते उभया-- वस्थायामपि प्रवृत्तिनिमित्तसद्भावात् । तथा प्रकृतेऽपि भिक्षाशीलत्वं व्युत्पत्तिनिमित्तं, तदुपलक्षितश्चहपरलोकाऽऽशंसाविप्रमुक्ततया यमनियमेषु व्यवस्थितत्वं प्रवृत्तिनिमित्तं. भिक्षमाणे अभिक्षमाणे वा भिक्षौ प्रवृत्तिनिमित्तसद्भावात्स एव भिक्षुः न रक्तपटादिः, नवकोट्यपरिशुद्धाहारभोजितया- तेषु प्रवृत्तिनिमित्तस्याभावादिति.."