SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ तत्त्वन्यायविभाकरे . [द्वितीयकिरण ___ अथ बोधिदुर्लभभावनामाह . नरकादिषु मुहुर्मुहुः परिभ्रमतो मिथ्यादर्शना|पहतचेतसः सम्यग्दर्शनादिनिर्मलार्हद्धर्मावाप्तिर्दुश्शक्येति परिचिन्तनं बोधिदुर्लभभा. वना । अतो योधिप्राप्तावप्रमादी स्यात् ॥ 5 .. नरकादिष्विति । बोधिर्जिनप्रणीतधर्मलाभः, सा त्रिविधा दर्शनज्ञानचारित्रबोधि भेदात , आद्या दर्शनमोहनीयक्षयोपशमादिसम्पन्नश्रद्धानलाभरूपा, द्वितीया ज्ञानावरणक्षयोपशमभूता ज्ञानप्राप्तिः, तृतीया च चारित्रमोहनीयक्षयोपशमजा । संसारोऽयं ह्यनादिः, तत्र नरकतिर्यमनुष्यामरभवगहनेषु कुलालचक्रवद्वम्भ्रम्यमाणस्य जन्तोः नेकविधैः काय वाङ्मानसैर्दुःखैरभितप्तस्याकामनिर्जरया कथमपि शुभं पुण्यं संप्राप्य त्रसत्वमवाप्तस्य 10 सत्क्षेत्रादिसम्पदः प्राज्यराज्यसुखमवाप्तस्यापि रागद्वेषमोहमलिनमानसत्वात्तत्त्वार्थेषु श्रद्धव सर्वविद्देशिताऽक्षयमोक्षसौख्यजननी दुःखेन भवति किमुत ज्ञानं चारित्रश्च, यद्येकदाऽपि जीवेन बोधिलभ्यते तदा नैव भवपर्यटनं भवेदित्येवं चिन्तनं बोधिदुर्लभभावनेत्यर्थः । तत्फलमाहात इति, एवमनुचिन्तयतो नैव सम्यग्दर्शनादौ प्रमादस्स्यादिति भावः ॥ अथान्तिमां धर्मस्वाख्यातभावनामाचष्टे15सम्यग्दर्शनमूलः पश्चमहाव्रतसाधनो गुप्त्यादिविशुद्धिव्यवस्थानः संसारपारकरो धर्मः परमर्षिणार्हता व्याख्यातः स्वयमप्यनुष्ठितश्चेत्येवं चिंतनं धर्मस्वाख्यातभावना । अस्याश्च धर्मे श्रद्धा गौरवं तदनुष्ठानासक्तिश्च जायत इति ॥ : सम्यगिति । सम्यग्दर्शनमेव मूलं यस्य धर्मस्य स इत्यर्थः, पञ्चेति, पञ्चमहाव्रतानि 20 साधनं यस्येत्यर्थः, गुप्त्यादीति, गुप्त्यादिपरिपालनमेव यस्य स्वरूपावस्थानं स इत्यर्थः, एवम्भूत एव धर्मः संसारनिस्तारक इत्याह संसारपारकर इति । स च भगवताहतैवामोघ. वचनेन व्याख्यात इत्याह परमर्षिणेति, न केवलं व्याख्यात एवापि तु स्वयमप्यनुष्ठित इत्याह स्वयमपीति, एवं विचिन्तयतः किं भवेदित्यत्राहास्याश्चेति, एवं विचारणाया इत्यर्थः । इति शब्दो भावनासमाप्तिद्योतकः ॥ 25 सम्प्रति भिक्षुप्रतिमामाह विशिष्टतपोऽभिग्रहो भिक्षुप्रतिमा, सा द्वादशविधा, आमासं विशि
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy