________________
लोकस्वरूपम् ]
म्याकडू
:::
त्यत्राहान्त इति परितः प्रान्तभाग इत्यर्थः, मध्यतः प्रदेशहाम्या परिहीयमाणा सर्वेषु चरमान्तेषु मक्षिका पत्रतोऽप्यतितन्वी बाहल्येनाङ्गुला संख्येयभागमितेति भावः । पृथिव्या अस्या आकारमाहोत्तानातपत्राकारेति, उत्तानीकृतच्छत्रसंस्थानवत्संस्थितेत्यर्थः घृतपूर्ण तथाविधकरोटिकाकारा वा बोध्या । अस्याः स्वरूपमाह स्वच्छस्फटिकरूपेति, निर्मलस्फटिक मृणालचन्द्रकरजस्तुषारहिमगोक्षीरहारवर्णा श्वेतसुवर्णमयीति भावः । अस्या नामधेयान्तरमाह सिद्ध - 5 शिलापराभिधानेति, सिद्धिक्षेत्रस्य प्रत्यासन्नतयोपचारात्सिद्धानां शिलाssधारभूता सिद्धशिला, तथा लोकाग्रस्तूपिका सर्वेषां प्राणभूतजीवसत्त्वानामुपद्रवकारित्वाभावात्सर्वप्राणभूतजीवसवसुखावहा मुक्तानामाश्रयत्वान्मुक्तालयेत्यादिनामानि भाव्यानि ॥
ननु यदि सिद्धक्षेत्रस्य प्रत्यासन्नत्वात्सिद्धशिलेत्युच्यते तर्हि क सिद्धक्षेत्रमित्यत्राह— तत ऊर्ध्वं चतुर्थगव्यूति षष्ठभागे आलोकान्तं सिद्धानां निवामः ॥
तत ऊर्ध्वमिति । सिद्धशिलाभिख्यपृथिव्या ऊर्ध्वमित्यर्थः, तस्याश्वोपरि योजनमेकं लोकस्ततोऽलोकः, योजनस्यास्याधस्तनक्रोशत्रयं विहाय परिशिष्टस्य चतुर्थक्रोशस्योपरितनषष्ठभागे त्रयस्त्रिंशदुत्तरधनुखिती सम्मिते धनुस्तृतीयभागाधिके सिद्धानां निवास इति भावः ॥
सम्प्रति लोकस्योर्ध्वस्य देवलोकनियमतः किञ्चिदून सप्तरज्जुमानं विशेषतः प्रदर्शयति
10
तत्र रुचकात्सौधर्मेशानौ यावत्सार्धरज्जुस्तत आसनत्कुमारमाहे- 15 न्द्रमेकरज्जुस्ततस्सहस्रारं यावत्सार्धं रज्जुद्वयं तस्मादच्युतं यावदेकरज्जुस्तत आलोकान्तं किञ्चिदुनैका रज्जुः ॥
तत्रेति । उत्तानार्थं मूलम् ॥
अथ किं चतुर्दशरज्जुपरिमितेऽस्मिन् लोके सर्वत्र चातुर्गतिकानां जीवानां निवासो गमनागमनं वा भवेदथ वाऽस्ति कश्चित्प्रतिनियम इत्यत्राह -
अधोलोकान्तादूर्ध्वलोकान्तं चतुर्द्दशरज्जुपरिमाणैकरज्जुविस्तृता त्रसनिवासस्थानरूपा त्रसनाडिकाऽस्ति, अस्या बहिरेकेन्द्रिया एव निवसन्तीति ॥
अधोलोकान्तादिति । स्पष्टम्, अस्या इति नाडिकाया इत्यर्थः एवशब्देन तत्र द्वन्द्रियादीनां निवासो नास्तीति सूच्यते । इतिशब्दो लोकनिरूपणसमाप्तिद्योतकः ॥
૪
20
25