________________
: ५८४ :
तत्त्वन्याय विभाकरे.
[ द्वितीयकिरणे
शुकानि निखिलानि च विमानानि नित्योद्योतानि नित्यालोकानि स्वयंप्रभाणि चेति । ननु आगमे पृथिवीनामष्टसंख्या कत्वस्यैवोक्तत्वे नाधोलोके सप्तानां मुक्तिस्थाने ईषत्प्राग्भारनाम्न्याः पृथिव्यासवेन सौधर्मादिदेवविमानानामन्तराले पृथिव्यभावेनैतानि किं प्रतिष्ठानीत्यत्राहाद्यस्थानद्वयमिति, सौधर्मैशानविमानव्रजद्वयमित्यर्थः, जगत्स्वभावादेवासौ 5 घनोदधिर्न स्पन्दते विमानान्यपि तत्रस्थानि न कदाचन जीर्यन्ति । तदुपरि स्थानत्रयमिति सनत्कुमार माहेन्द्रब्रह्मलोकत्रयमित्यर्थः । वायुप्रतिष्ठमिति, अतिनिचिते निश्चले घनवाता - ख्ये वातसञ्चये लब्धप्रतिष्ठमित्यर्थः । तदुपरि स्थानत्रयश्चेति लान्तकमहाशुक्रसहस्रारस्थानत्रयमित्यर्थः । शेषाणीति, आनतप्राणतारणाच्युतविमानानि नव ग्रैवेयकाणि अनुत्तरविमानानि चेत्यर्थः आकाशप्रतिष्ठानीति, तत्र हेतुमाह गुरुलघुगुणवत्त्वादिति, ऊर्ध्वाधो10 गतिस्वभावविरहेणाकाशप्रतिष्ठानीत्यर्थः ॥
15
ग्रैवेयकेषु अनुत्तरविमानेषु ये देवा वसन्ति ते कल्पातीता उच्यन्त इत्याहग्रैवेयकेषु अनुत्तरे च कल्पातीता देवा निवसन्ति ॥
ग्रैवेयकेष्विति । कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेष्विति ढकन्प्रत्ययः । सामानिकादिकल्पनाविरहादेते कल्पातीतास्तेषामहमिन्द्रत्वा दिति भावः ।
अथ सिद्धक्षेत्रमाह
तत ऊर्ध्वं द्वादशयोजनात्पश्ञ्चचत्वारिंशल्लक्षयोजनपरिमाणा मध्ये चाष्टयोजनबाहल्याऽन्ते मक्षिकापक्षवत्कृशतरोत्तानातपत्राकारषत्प्राग्भाराभिधानाऽष्टमी स्वच्छस्फटिकरूपा सिद्धशिलापराभिधाना पृथिवी ||
तत ऊर्ध्वमिति । अनुत्तरादूर्ध्वमित्यर्थः काऽस्तीत्यत्राह - ईषत्प्राग्भाराभिधानाऽष्टमी 20 पृथिवीति, ईषदल्पो रत्नप्रभाद्यपेक्षया प्राग्भार उच्छ्रायादिलक्षणो यस्याः सा ईषत्प्राग्भारा, ऊर्ध्वलोकाप्रस्था सिद्धानां निवासभूताऽष्टमी पृथिवीत्यर्थः । द्वादशयोजनादिति, सर्वार्थसिद्धविमानस्य द्वादशभिर्योजनैरूर्ध्वं वर्त्तमानेत्यर्थः । अस्या विस्तारमाह पञ्चचत्वारिंशदिति, आयामविष्कम्भाभ्यामिति बोध्यम् । मनुष्यक्षेत्रपरिमाणमिदं बोध्यम्, मध्य इति बहुमध्यदेशभाग इत्यर्थः, उच्चैस्त्वमाहाष्ट्रयोजनबाहल्येति, तर्हि सर्वासु दिक्षु विदिक्षु च कथमि
"
१. ईषद् अल्पो योजनाष्टकबाहल्य पञ्चचत्वारिंशलक्ष विष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सेषत्प्राभारा अष्टमी पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्याः महाप्राग्भाराः अशीत्यादिसहस्रांधिकयोजनलक्षबाह. ल्यत्वात् ऊर्ध्वलोकस्य चूडाकल्पेयमिति ॥