________________
लोकस्वरूपम् ]
न्यायप्रकाशसमलड्डू लङ्कृते
देवस्याधो यो देवो वर्त्तते तस्य यदुत्कृष्टमायुस्तदेवोर्ध्वस्थस्य जघन्यं यथा सुदर्शनस्याधोऽच्युतदेव स्तस्योत्कृष्टमायुर्द्वाविंशतिसागरोपमं तदेव सुदर्शनस्य जघन्यमित्येवं भाव्यम्, लोकपुरुषस्येति, प्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जुपरिवर्त्तिप्रदेशस्तन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेयका नवात्मका इति नव ग्रैवेयका उच्यन्ते इति भावः ||
सम्प्रति विजयादीनाह -
ततश्वोपरि पूर्वादिक्रमेण विजयवैजयन्तजयन्तापराजितानि विमानानि सन्ति । मध्ये च सर्वार्थसिद्धविमानम् । आद्यचतुर्विमानस्थानामुत्कृष्टतो द्वात्रिंशत्सागरोपमं जघन्यत एकत्रिंशत्सागरोपममायुः । सर्वार्थसिद्धस्थानान्तु जघन्याभावेनोत्कर्षेण त्रयस्त्रिंशत्सागरोपममायुः । आस्थानद्वयं घनोदधिप्रतिष्ठं तदुपरि स्थानत्रयं वायुप्रतिष्टं तदुपरि 10 स्थानत्रयश्च घनोदधिधनवातप्रतिष्ठं शेषाणि च गुरुलघुगुणवत्त्वादाकाशप्रतिष्ठानि ॥
१५८३:
5
I
ततश्चोपरीति । नवप्रैवेयकोपरीत्यर्थः, पूर्वादिक्रमेणेति, पूर्वस्यां विजयः दक्षिणस्यां वैजयन्तः उत्तरस्यां जयन्त इत्येवं क्रमेणेत्यर्थः । देवानामप्येवमेवाभिधानानि, यैरभ्युदयविघ्नहेतवो जितास्तैश्च ये न पराजितास्ते देवास्तानि विमानान्यपि तदभिख्यानानीति 15 भावः । मध्ये चेति, विजयादीनां मध्य इत्यर्थः सर्वेऽभ्युदयार्थास्सिद्धा येषामिति सर्वार्थसिद्धास्तेषां विमानमित्यर्थः, एभ्य ऊर्ध्वं विमानानामभावादेतानि अनुत्तर विमानान्युच्यन्ते । एतेषां जघन्योत्कृष्ट स्थिती आह आद्येति, विजयवैजयन्तापराजितदेवानामित्यर्थः, सर्वार्थसिद्धानान्त्विति तु शब्देन द्योतितं विशेषमाह जघन्याभावेनेति । सर्वार्थसिद्धं संख्येयविस्तृतं शेषाणि चत्वार्य्यसंख्येय विस्तृतानि विमानप्रस्तटाश्च सौधर्मेशानयोस्त्रयोदश 20 सनत्कुमार माहेन्द्रयोर्द्वादश ब्रह्मलोके षट् लान्तके पश्च शुक्रे चत्वारः, एवं सहस्रारे, आनतप्राणतयोश्चत्वारः, एवमारणाच्युतयोः, ग्रैवेयकेष्वधस्तनमध्यमोपरिमेषु प्रत्येकं त्रयः, अनुत्तरेष्वेक इति द्विषष्टिस्ते भवन्ति । सौधर्मेशानयोर्विमानानि पञ्चवर्णानि, सनत्कुमार माहेन्द्रयो. चतुर्वर्णानि कृष्णवर्णाभावात् । ब्रह्मलोकलान्तकयोः त्रिवर्णानि कृष्णनीलवर्णाभावात्, महाशुक्रसहस्रारयोर्द्विवर्णानि कृष्णनीलहारिद्रवर्णाभावात्, आनतप्राणतारणाच्युतकल्पेषु 25 एकवर्णानि शुक्लवर्णस्यैकस्यैव भावात् ग्रैवेयकविमानान्यनुत्तरविमानानि च परम
१. एतान्यावलिकाप्रविष्टान्येव, मध्यवर्तिसर्वार्थसिद्धविमानं वृत्तं, शेषाणि विजयादीनि चत्वार्थपित्र्यस्त्राणि ॥