________________
: ५८२ :
तवम्यायविभाकरे
[ द्वितीयकिरणे
लोकनामा कल्पः, तत उपरि बहुयोजनान्तरं उपर्युपरि लान्तकमहाशुक्रसहस्रारकल्पा स्त्रयः, ततो बहुयोजनादूर्ध्वं सौधर्मेशानकल्पवत् आनतप्राणतौ कल्पौ तदुपरि समश्रेणौ सनत्कु मारमाहेन्द्रवत् आरणाच्युतौ व्यवस्थिताविति द्वादशकल्पा विज्ञेयाः ॥
अथ क्रमेण द्वादशकल्पेष्ववस्थितानां देवानां स्थितिमाह —
5 तत्र सौधर्मदेवस्योत्कृष्टतो द्विसागरोपममायुः, ईशानस्य किश्चिदधिकं द्विसागरोपमं सनत्कुमारस्य सप्तसागरोपमं माहेन्द्रस्य किञ्चिदधिकं तत्, अग्रिमाणाञ्च दशचतुर्दश सप्तदशाष्टादशैकोनविंशतिविंशत्येकविंशतिद्वाविंशतिसागरोपमाणि । जघन्यतस्सौधर्मस्य पल्योपमं, ईशानस्य किञ्चिदधिकं पल्योपमं, अग्रे तु यदधोऽधो देवानामुत्कृष्टमायुरुपरितन10 देवानां तज्जघन्यम् ॥
तत्रेति । तत् - सप्तसागरोपमं, अग्रिमाणाश्चेति, ब्रह्मलोकस्थस्य दशसागरोपमाणि, लान्तकस्थस्य चतुर्दशसागरोपमाणि, महाशुक्रस्थस्य सप्तदशसागरोपमाणि, सहस्रारस्थस्याष्टादशसागरोपमाण, आनतस्थस्यैकोनविंशतिसागरोपमाणि, प्राणतस्थस्य विंशतिसागरोपमाणि, आरणस्थस्यैकविंशतिसागरोपमाणि, अच्युतस्थस्य द्वाविंशतिसागरोपमाणीति भावः । 15 अथ जघन्यामेषां स्थितिमाह - जघन्यत इति, अग्रे त्विति, सनत्कुमारादीनामिति भावः शिष्टं स्फुटार्थम् ॥
अथाहमिन्द्राणां निवासस्थानमाह
ततश्चोपर्युपरि त्रयोविंशतिसागरोपमा देकैकाधिक सागरोपमाधिकोत्कृष्टायुष्काणां तदधो देवोत्कृष्टजघन्यायुष्काणां देवानां सुदर्श 20 नसुप्रतिबद्धमनोरम सर्व भद्रविशाल सुमनस सौमनसप्रीतिकरादित्यभेदतो लोकपुरुषस्य ग्रीवाप्रदेशस्थाः कण्ठाभरणभूता नव ग्रैवेयकाभिख्याः स्थानविशेषास्सन्ति ||
ततश्चेति । कल्पोर्ध्वमित्यर्थः, त्रयोविंशतिसागरोपमादिति, आरभ्येति शेषस्तथा च 25 सुदर्शनस्य परा स्थितिस्त्रयोविंशतिसागरोपमं, सुप्रतिबद्धस्यैकाधिकं चतुर्विंशतिसागरोपमं मनोरमस्य पञ्चविंशतिसागरोपमं सर्वभद्रस्य षड्विंशतिसागरोपमं विशालस्य सप्तविंशतिसागरोपमं सुमनसस्याष्टाविंशतिसागरोपमं सौमनसस्यैकोनत्रिंशत्सागरोपमं प्रीतिकरस्य त्रिंशत्सागरोपमं, आदित्यस्य एकत्रिंशत्सागरोपमं भवतीति भावः, तदधोदेवेति यस्य