Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 622
________________ लोकस्वरूपम् ] न्यायप्रकाशसमलङ्कृते : ५७१ : ऊर्ध्वशतयोजनेविति । रत्नप्रभापृथिव्या व्यन्तरनगरोपरितनवर्जितशतयोजनेषु ऊर्ध्वमधश्च दश दश योजनानि मुक्त्वाऽशीतियोजनेषु अणपन्नियपणपन्नियप्रभृतीनां वानमन्तराणां देवानां निकायास्सन्तीति भावः, ननु देवानां भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदत. श्चतुर्निकायत्वमिति प्रज्ञापनातत्त्वार्थादावुक्तं तत्र ज्योतिष्कवैमानिको रुचकादूर्ध्व वर्तेते इति वक्ष्यते भवनपतिव्यन्तरौ तूक्तौ, इमे च वानमन्तराः के, किं देवा मनुष्या- 5 स्तियश्चो नारका वेत्याशंकायामाहैते चेति वानमन्तराश्चेत्यर्थः, व्यन्तराणामवान्तरभेदत्वादेते देवविशेषा एवेति भावः ॥ -- अथ तिर्यग्लोकं व्यावर्णयितुमादौ तिर्यग्लोकं स्वरूपयति रुचकादुपर्यधश्चाष्टादशशतयोजनमितो व्यन्तरनरज्योतिषादिनिवासयोग्यो झल्लाकृतिस्तिर्यग्विशालश्शुभपरिणामी तिर्यग्लोकः॥ 10 रुचकादिति । यस्मादूर्ध्वमधश्च लोकस्य वृद्धिस्तस्माद्रुचकादित्यर्थः, तवं नवशतयोजनान्यधो नवशतयोजनानि मिलित्वा चाष्टादशशतयोजनानि भवन्ति तावत्परिमित इत्यर्थः, तत्र वासयोग्यानाह व्यन्तरेति, आकारमाह झल्लाकृतिरिति, सर्वत्र समतलस्तुल्य... विष्कम्भायामो वादिनविशेषो झल्लरी, तद्वत्तिर्यग्लोकसन्निवेशोऽल्पोच्छ्रायत्वात्तुल्यायामविष्कम्भरूपमहाविस्ताराञ्चेत्यर्थ ऊर्ध्वाधोमानस्यातिसंकोचादाह तिर्यग्विशाल इति, विष्कम्भा- 15 यामाभ्यामेकरज्जुप्रमाण इत्यर्थः । तिर्यग्लोक इति, यतः असंख्येयास्स्वयंभूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीपसमुद्रास्ततस्तिर्यग्लोकसंज्ञितः, अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र क्षेत्रानुभावात्प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि सम्भवन्ति, अतस्तद्योगादयं लोकोऽपि तिर्यग्लोक इत्यर्थः ॥ के पुनस्तत्रावस्थिता इत्यत्राह- मध्यलोकाभिधाने तिर्यग्लोके पूर्वपूर्वापेक्षया द्विगुणविस्तारा असंख्याता वलयाकृतयो जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ता द्वीपसमुद्रा- . स्सन्ति ॥ मध्यलोकाभिधान इति । तिर्यग्लोकस्यैव मध्यलोक इति नामान्तरम् , न तु लोकस्यास्य चतुर्दशरज्जुमानस्य मध्यत्वात् , ननु कथं तर्हि तिर्यग्लोकस्य मध्यलोक इति नामा- 25 न्तरमिति चेन्न मध्यमपरिणामद्रव्यपूर्णत्वात् , ऊर्ध्वाधोलोकव्यवहारान्यथानुपपत्ता, यन्नि

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676