Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
:५७४: तस्वन्यायविभाकरे
[द्वितीयकिरणे एवंविघे जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि सन्तीत्याह
जम्बूद्वीपे चोत्तरोत्तरक्रमेणोत्तरदिग्वर्तीनि क्षेत्रव्यवच्छेदकहिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिवर्षधरपर्वतालङ्कतानि भरतहैमवत
हरिविदेहरम्यकहैरण्यवतैरावतनामभाञ्जि सप्त क्षेत्राणि । एवमेव धातकी. 5 खण्डे पुष्कराधै च द्विगुणानि क्षेत्राणि ॥
जम्बूद्वीपे चेति । कानि तानि क्षेत्राणीत्यत्राह भरतेति, यत्र भरतो नाम देवो महर्द्धिको महाद्युतिको महायशाः पल्योपमस्थितिकः परिवसति तत्क्षेत्रं भरतं, क्षुद्रहिमवतो महाहिमवतश्चापान्तरालं क्षेत्रं हैमवतं, तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगे हेममयाः शिलापट्टका
उपयुज्यन्त इति हैमवतं, हेम्नो नित्य सम्बन्धाद्वा हैमवतं, हैमवतनामकमहर्द्धिकपल्योपम10 स्थितिकदेवयोगाद्वा हैमवतं, हरिः सूर्यश्चन्द्रश्च यत्र केचन मनुष्या सूर्य इवारुणावभासाः
केचन चन्द्र इव श्वेता निवसन्ति तादृशं क्षेत्रं हरयः क्षेत्रवाची हरिशब्दो नित्यं बहुवचनान्तः, विशिष्टशरीरवत्पुरुषसम्बन्धात् महाविदेहनामदेवसम्बन्धाद्वा विदेहं देवकुरूत्तरकुरुषु मनुघ्याणां त्रिगव्यूतोड्रायत्वात् , रम्यकं, रम्यते क्रीड्यते नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च
तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयतां नीयत इति रम्यं तदेव रम्यकं रम्यकदेवसम्ब. 15 न्धाद्वा तादृशम् । हैरण्यवतदेवसम्बन्धाद्धैरण्यवतं, ऐरावतं ऐरावतयोगात्तादृशं तथा चैतानि
सप्तक्षेत्राणीत्यर्थः । एषां विशिष्टक्रमसन्निवेशाभिधित्सया प्राहोत्तरोत्तरक्रमेणेति, भरतोत्तरं हैमवतं तदुत्तरं हरिक्षेत्रमित्येवं क्रमेणेत्यर्थः । कतमदिगवच्छेदेनेत्यत्राहोत्तरदिग्व नीति, उत्तरदिगवच्छेदेनेत्यर्थः, तथा च जम्बूद्वीपस्य दक्षिणगामिनि पर्यन्ते स्थितं कालचक्रे नाव
स्थमधिज्यधनुराकारं पूर्वदक्षिणपश्चिमसमुद्रेण स्पृष्टं भरतक्षेत्रं षड्विंशत्युत्तरपंचशतयोजनमितं 20 तदुत्तरं हैमवतं तदुत्तरं हरिक्षेत्रमित्येवं क्रमो विज्ञेयः । क्षेत्राणामेषां किं कृता विभाग
व्यवस्थेत्याशङ्कायामाह क्षेत्रव्यवच्छेदकेति, प्राचुर्येण हिमाभिसम्बन्धाद्धिमवान् महांश्चासौ हिमवान् महाहिमवान् इन्द्रगोपवदसत्यपि हिमे रूढिविशेषबलाद्धिमवदाख्या। यस्मिन् देवा देव्यश्च क्रीडार्थ निषीदन्ति प्राचुर्येण स निषधः । नीलवर्णयोगान्नीलः, रुक्मस.
दावाद्रुक्मी, शिखरबाहुल्याच्छिखरी, एते षट्वर्षधरपर्वताः, वंशो वर्षो वास्य इति 25 पर्यायनामानि क्षेत्रस्य, वर्षसन्निधानाद्वर्षा भरतादयः, तानसंकरेण विभज्य धारणाद्वर्षधरा
एवभूताः पर्वता वर्षधरपर्वताः, तैरलङ्कृतानि स्वस्वपूर्वापरकोटिभ्यां लवणसमुद्रस्पर्शिभि
१. क्षुद्रहिमवतो दक्षिणप्त्यां । दाक्षिणात्यलवणसमुद्रस्योत्तरस्यां पौरस्य लवणसमुद्रस्य पश्चिमायां प्राश्चात्यलवणसमुद्रस्य पूर्वस्यां दिशि भरतनामा वर्षों वर्त्तते । चक्रवर्तिनाऽखण्डितातपत्रेण सल्लक्षणेन सुन्दराङ्गेण विनीता राजधानी प्रभूतेन भरतेन शासितत्वाद्धरतनामाऽस्य वर्षस्य ॥

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676