Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 635
________________ : ५८४ : तत्त्वन्याय विभाकरे. [ द्वितीयकिरणे शुकानि निखिलानि च विमानानि नित्योद्योतानि नित्यालोकानि स्वयंप्रभाणि चेति । ननु आगमे पृथिवीनामष्टसंख्या कत्वस्यैवोक्तत्वे नाधोलोके सप्तानां मुक्तिस्थाने ईषत्प्राग्भारनाम्न्याः पृथिव्यासवेन सौधर्मादिदेवविमानानामन्तराले पृथिव्यभावेनैतानि किं प्रतिष्ठानीत्यत्राहाद्यस्थानद्वयमिति, सौधर्मैशानविमानव्रजद्वयमित्यर्थः, जगत्स्वभावादेवासौ 5 घनोदधिर्न स्पन्दते विमानान्यपि तत्रस्थानि न कदाचन जीर्यन्ति । तदुपरि स्थानत्रयमिति सनत्कुमार माहेन्द्रब्रह्मलोकत्रयमित्यर्थः । वायुप्रतिष्ठमिति, अतिनिचिते निश्चले घनवाता - ख्ये वातसञ्चये लब्धप्रतिष्ठमित्यर्थः । तदुपरि स्थानत्रयश्चेति लान्तकमहाशुक्रसहस्रारस्थानत्रयमित्यर्थः । शेषाणीति, आनतप्राणतारणाच्युतविमानानि नव ग्रैवेयकाणि अनुत्तरविमानानि चेत्यर्थः आकाशप्रतिष्ठानीति, तत्र हेतुमाह गुरुलघुगुणवत्त्वादिति, ऊर्ध्वाधो10 गतिस्वभावविरहेणाकाशप्रतिष्ठानीत्यर्थः ॥ 15 ग्रैवेयकेषु अनुत्तरविमानेषु ये देवा वसन्ति ते कल्पातीता उच्यन्त इत्याहग्रैवेयकेषु अनुत्तरे च कल्पातीता देवा निवसन्ति ॥ ग्रैवेयकेष्विति । कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेष्विति ढकन्प्रत्ययः । सामानिकादिकल्पनाविरहादेते कल्पातीतास्तेषामहमिन्द्रत्वा दिति भावः । अथ सिद्धक्षेत्रमाह तत ऊर्ध्वं द्वादशयोजनात्पश्ञ्चचत्वारिंशल्लक्षयोजनपरिमाणा मध्ये चाष्टयोजनबाहल्याऽन्ते मक्षिकापक्षवत्कृशतरोत्तानातपत्राकारषत्प्राग्भाराभिधानाऽष्टमी स्वच्छस्फटिकरूपा सिद्धशिलापराभिधाना पृथिवी || तत ऊर्ध्वमिति । अनुत्तरादूर्ध्वमित्यर्थः काऽस्तीत्यत्राह - ईषत्प्राग्भाराभिधानाऽष्टमी 20 पृथिवीति, ईषदल्पो रत्नप्रभाद्यपेक्षया प्राग्भार उच्छ्रायादिलक्षणो यस्याः सा ईषत्प्राग्भारा, ऊर्ध्वलोकाप्रस्था सिद्धानां निवासभूताऽष्टमी पृथिवीत्यर्थः । द्वादशयोजनादिति, सर्वार्थसिद्धविमानस्य द्वादशभिर्योजनैरूर्ध्वं वर्त्तमानेत्यर्थः । अस्या विस्तारमाह पञ्चचत्वारिंशदिति, आयामविष्कम्भाभ्यामिति बोध्यम् । मनुष्यक्षेत्रपरिमाणमिदं बोध्यम्, मध्य इति बहुमध्यदेशभाग इत्यर्थः, उच्चैस्त्वमाहाष्ट्रयोजनबाहल्येति, तर्हि सर्वासु दिक्षु विदिक्षु च कथमि " १. ईषद् अल्पो योजनाष्टकबाहल्य पञ्चचत्वारिंशलक्ष विष्कम्भात् प्राग्भारः पुद्गलनिचयो यस्याः सेषत्प्राभारा अष्टमी पृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्याः महाप्राग्भाराः अशीत्यादिसहस्रांधिकयोजनलक्षबाह. ल्यत्वात् ऊर्ध्वलोकस्य चूडाकल्पेयमिति ॥

Loading...

Page Navigation
1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676