Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
लोकस्वरूपम् ]
म्यायप्रकाशसमलते स्यादित्यत्राह भागान्तर इति, भवनपतिवासानां दक्षिणोत्तरभेदतस्सत्त्वेनान्यत्र नारकाणां निवासा इति भावः, रत्नप्रभायां नारकाणां त्रयोदश प्रस्ताराः । नारकावासाश्च त्रिशल्लक्षाणि, द्रव्योर्थतया नित्या रत्नप्रभा प्रतिनियतसंस्थानादिरूपाकारस्य तादवस्थ्यात् , वर्णपर्यायैर्गन्ध-. पर्यायै रसपर्यायैस्स्पर्शपर्यायैश्चाशाश्वताः वर्णादीनामन्यथाभवनादिति ॥
अवशिष्टानां पृथिवीनां स्थूलपरिमाणादिकं प्रकाशयति नारकप्रस्तावात्- 5
द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टसहस्राधिकलक्षयोजनबाहल्याश्शकेरादयः । अत्र तु नारका एव वसन्ति ॥
द्वात्रिंशदिति । शर्करादीनां पृथिवीनां बाहल्यं द्वात्रिंशत्सहस्राधिकलक्षयोजनादिक्रमेण बोध्यमित्यर्थः, अत्र वासयोग्यानाहात्र स्विति, शर्करादिपृथिवीष्वित्यर्थः, एवशब्देनाऽऽद्यायामिवात्र भवनपतिनिवासो नास्तीति सूच्यते, तथा क्रमेण प्रस्तारा नरकाणां एकादशनवस- 10 तपञ्चव्येकाः, आवासाश्च द्वितीयायां पञ्चविंशतिर्लक्षाणि, तृतीयायां पञ्चदश लक्षाणि, चतुर्थी दश लक्षाणि पञ्चम्यां त्रीणि लक्षाणि षष्ठयां नरकपञ्चोनैकलक्षाः सप्तम्यान्तु पञ्चैवेति ॥
रत्नप्रभापृथिव्यन्तनिरूपणप्रसङ्गेन मध्यलोकवर्तिनामपि व्यन्तरवानमन्तराणां निवासस्थानमाह
उपरितनसहस्रयोजनस्योर्ध्वमधश्च योजनशतं मुक्त्वा मध्ये पिशा- 15 चाद्यष्टविधानां जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टत एकपल्योपमायुष्काणां व्यन्तराणां भवनानि सन्ति ।।
१ नारकावासा द्विविधाः आवलिकाप्रविष्टाः प्रकीर्णकरूपाश्चेति, आवलिकाप्रविष्टा नाम अष्टासु दिक्षु समश्रेण्या व्यवस्थिताः, आवलिकासु श्रेणीषु प्रविष्टा व्यवस्थिता इति व्युत्पत्तेः, ते संस्थानमधिकृत्य त्रिविधाः, वृत्ताः यस्राः चतुरस्राः, आवलिकाबाह्याः प्रकीर्णकाः नानासंस्थानसंस्थिताः, सप्तमपृथिव्यान्तु नारका आवलिकाप्रविष्टा एव । तथा चोभयविधनारकवाससंख्येयं रत्नप्रभायां त्रिंशल्लक्षेति ॥२ रत्नप्रभेयं द्रव्यार्थादेशेन शाश्वती आकारस्य सर्वदाभावात् पर्यायार्थादेशेनाशाश्वती, कृष्णसुरभितिक्तकठिनत्वादिपर्यायाणां प्रतिक्षणं कियत्कालादनन्तरं वाऽन्यथान्यथाभवनात् । अनादित्वान्न कदाचिन्नासीत् न कदाचिन्न भवति सदा भावात् न कदाचिन्न भविष्यति, अपर्यवसितत्वात् किन्तु अभूत् भवति भविष्यति च, एवं त्रिकालभावि.. त्वाद्धृवा, ध्रुवत्वानियतावस्थाना, धर्मास्तिकायादिवत् , नियतत्वादेव शाश्वती, शश्वद्भावे प्रलयाभावात् शाश्वतत्वादेव च सततं गंगासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीकहद इवान्यतरपुद्गलविचटनेऽपि अन्यतरपुद्गलोपचयभावादक्षया, अक्षयत्वादेव चाव्यया मानुषोत्तरादहिस्समुद्रवत् , अव्ययत्वादेव स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत्, एवं सदावस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवदित्येवं सर्वासु पृथिवीषु बोध्यम् ।।

Page Navigation
1 ... 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676