Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 618
________________ लोकस्वरूपम् ] न्यायप्रकाशलमलते तीव्रतमा नीला तीव्रा कृष्णा च, षष्ट्यां तीव्रतरा कृष्णा, सप्तम्यां तीव्रतमा कृष्णैवेति । अशुभतराः पुद्गलपरिणामाः स्पर्शरसगन्धवर्णशब्दसंस्थानभेदगतिबन्धागुरुलघुनामानो दश तैर्यथायोगं सन्तप्ता वेदितव्याः। अशुभतरदेहा अशुभनामकर्मोदयात्सर्वाण्यङ्गोपाङ्गादीनि तहेहेष्वशुभानि नियमेन हुण्डशरीराणि बीभत्सानि, तेषां हि द्विविधानि शरीराणि, भव. धारकाणि उत्तरवैक्रियाणि च, जघन्येनाकुलासंख्येयभागप्रमाणं भवधारकं सर्वासु, उत्कर्षेण 5 सप्त धनंषि त्रयो हस्ताः षट् चाङ्गुलानि प्रथमायामुत्सेधाङ्गुलमधिकृत्येदम् , अधोऽधोऽन्यासु च द्विगुणवृद्ध्या विज्ञेयम् । उत्तरवैक्रियन्तु प्रथमायां जघन्येनाङ्गुलसंख्येयभागप्रमितमन्यासु च, उत्कर्षेण पञ्चदश धनूंष्यर्धतृतीयाश्च रत्नयः प्रथमायामेतदेव द्विगुणं द्वितीयस्यामेवं तावज्ज्ञेयं यावत्सप्तम्यां धनुस्तहस्रमिति । अशुभतराश्च वेदनाः, नरकेषु अधोऽधश्शीतोष्णादिप्रयुक्ता विचित्रा वेदितव्याः, अशुभतरा विक्रिया नारकाणां भवन्ति, शुभं 10 करिष्याम इत्यशुभतरमेव विकुर्वते दुःखाभिहतमानसाश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतून विकुर्वते इति भावः । किमेषां शीतोष्णजनितमेव दुःखमुतान्यथापीत्यत्राहान्योऽन्योदीरितदुःखा इति, भवप्रत्ययविभङ्गज्ञानानुगतत्वान्मिथ्यादृष्टयो दूरादेव दुःखहेतूनवगत्योत्पन्नदुःखाः प्रत्यासत्तमै परस्परालोकनाच्च समुज्वलितक्रोधकृशानवोऽभिघातादिभिरुदीरितदुःखा भवन्ति, सम्यग्दृष्टयस्तु संज्ञित्वादेवातीतजन्मन्यनाचारकारिणमात्मानं जामन्तः 15 क्षेत्रस्वभावजानि दुःखानि सहमानाः परैरुदीरितवेदनारस्वायुःक्षयमुदीक्षन्तेऽतिदुःखिताः न पुनर्वेदनास्समुदीरयन्त्यन्यनारकाणाम् , एषामवधिज्ञानं न विभङ्गज्ञानमिति भावः। नारका इति, नरको विद्यते एषान्ते नारका नरकेषु भवा इति वा, ननु चन्द्रसूर्यादयो देवाः प्रत्यक्षसिद्धा एव, ये चाप्रत्यक्षा अन्ये देवा मंत्रविद्योपयाचितकादिफलसिद्ध्याऽनुमानतो गम्यन्ते ये पुनर्नारकास्ते साक्षादनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यङ्नरामरेभ्यो न सर्वथा भिन्नजातीया- 20 स्सन्ति खरविषाणवदिति चेन्मैवम् , सर्वज्ञप्रत्यक्षविषयत्वेन सर्वथाऽनुपलभ्यमानत्वस्यासिद्धत्वात् । अस्मत्प्रत्यक्षाविषयत्वान्न तत्सिद्धिरिति तु एकस्याप्रत्यक्षस्यापि अपरप्रत्यक्षविषयत्वे बाधकाभावेन व्युदसनीयम् , इन्द्रियप्रत्यक्षस्योपचारमात्रेणैव प्रत्यक्षत्वाच्च, सन्ति केचित्प्रकृष्टपापफलभोक्तारस्तस्य कर्मफलत्वात् जघन्यमध्यमफलभोगितिर्यङ्नरवत् , ये च प्रकृष्ट १. शीतोष्णबुभुक्षापिपासाखर्जूपारतंत्र्यभयशोकजराव्याधिरूपा दशविधा वेदनाः । तिर्यङ्मनुष्यभवान्नरकेषूत्पन्नास्सत्वा अन्तर्मुहूर्तेन निळूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति हत, छिन्द, भिन्तेत्येवं रूपान् । श्रुत्वा ते भयोद्धान्तलोचना नष्टान्तःकरणा नष्टसंज्ञाश्च कां दिशं व्रजामः कुत्र वैतदु:खस्य त्राणं स्यादिति कांक्षन्ति, खदिराझारसंनिभा ज्वालां ज्योतिर्मयीं भूमिमाक्रमन्तो दह्यमानाः करुणमाक्रन्दन्तीत्यादिरूपेण वेदना विज्ञयाः ।।

Loading...

Page Navigation
1 ... 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676