________________
लोकस्वरूपम् ]
न्यायप्रकाशलमलते तीव्रतमा नीला तीव्रा कृष्णा च, षष्ट्यां तीव्रतरा कृष्णा, सप्तम्यां तीव्रतमा कृष्णैवेति । अशुभतराः पुद्गलपरिणामाः स्पर्शरसगन्धवर्णशब्दसंस्थानभेदगतिबन्धागुरुलघुनामानो दश तैर्यथायोगं सन्तप्ता वेदितव्याः। अशुभतरदेहा अशुभनामकर्मोदयात्सर्वाण्यङ्गोपाङ्गादीनि तहेहेष्वशुभानि नियमेन हुण्डशरीराणि बीभत्सानि, तेषां हि द्विविधानि शरीराणि, भव. धारकाणि उत्तरवैक्रियाणि च, जघन्येनाकुलासंख्येयभागप्रमाणं भवधारकं सर्वासु, उत्कर्षेण 5 सप्त धनंषि त्रयो हस्ताः षट् चाङ्गुलानि प्रथमायामुत्सेधाङ्गुलमधिकृत्येदम् , अधोऽधोऽन्यासु च द्विगुणवृद्ध्या विज्ञेयम् । उत्तरवैक्रियन्तु प्रथमायां जघन्येनाङ्गुलसंख्येयभागप्रमितमन्यासु च, उत्कर्षेण पञ्चदश धनूंष्यर्धतृतीयाश्च रत्नयः प्रथमायामेतदेव द्विगुणं द्वितीयस्यामेवं तावज्ज्ञेयं यावत्सप्तम्यां धनुस्तहस्रमिति । अशुभतराश्च वेदनाः, नरकेषु अधोऽधश्शीतोष्णादिप्रयुक्ता विचित्रा वेदितव्याः, अशुभतरा विक्रिया नारकाणां भवन्ति, शुभं 10 करिष्याम इत्यशुभतरमेव विकुर्वते दुःखाभिहतमानसाश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतून विकुर्वते इति भावः । किमेषां शीतोष्णजनितमेव दुःखमुतान्यथापीत्यत्राहान्योऽन्योदीरितदुःखा इति, भवप्रत्ययविभङ्गज्ञानानुगतत्वान्मिथ्यादृष्टयो दूरादेव दुःखहेतूनवगत्योत्पन्नदुःखाः प्रत्यासत्तमै परस्परालोकनाच्च समुज्वलितक्रोधकृशानवोऽभिघातादिभिरुदीरितदुःखा भवन्ति, सम्यग्दृष्टयस्तु संज्ञित्वादेवातीतजन्मन्यनाचारकारिणमात्मानं जामन्तः 15 क्षेत्रस्वभावजानि दुःखानि सहमानाः परैरुदीरितवेदनारस्वायुःक्षयमुदीक्षन्तेऽतिदुःखिताः न पुनर्वेदनास्समुदीरयन्त्यन्यनारकाणाम् , एषामवधिज्ञानं न विभङ्गज्ञानमिति भावः। नारका इति, नरको विद्यते एषान्ते नारका नरकेषु भवा इति वा, ननु चन्द्रसूर्यादयो देवाः प्रत्यक्षसिद्धा एव, ये चाप्रत्यक्षा अन्ये देवा मंत्रविद्योपयाचितकादिफलसिद्ध्याऽनुमानतो गम्यन्ते ये पुनर्नारकास्ते साक्षादनुमानतो वाऽनुपलभ्यमानत्वेन तिर्यङ्नरामरेभ्यो न सर्वथा भिन्नजातीया- 20 स्सन्ति खरविषाणवदिति चेन्मैवम् , सर्वज्ञप्रत्यक्षविषयत्वेन सर्वथाऽनुपलभ्यमानत्वस्यासिद्धत्वात् । अस्मत्प्रत्यक्षाविषयत्वान्न तत्सिद्धिरिति तु एकस्याप्रत्यक्षस्यापि अपरप्रत्यक्षविषयत्वे बाधकाभावेन व्युदसनीयम् , इन्द्रियप्रत्यक्षस्योपचारमात्रेणैव प्रत्यक्षत्वाच्च, सन्ति केचित्प्रकृष्टपापफलभोक्तारस्तस्य कर्मफलत्वात् जघन्यमध्यमफलभोगितिर्यङ्नरवत् , ये च प्रकृष्ट
१. शीतोष्णबुभुक्षापिपासाखर्जूपारतंत्र्यभयशोकजराव्याधिरूपा दशविधा वेदनाः । तिर्यङ्मनुष्यभवान्नरकेषूत्पन्नास्सत्वा अन्तर्मुहूर्तेन निळूनाण्डजसन्निभानि शरीराण्युत्पादयन्ति, पर्याप्तिभावमागताश्चातिभयानकान् शब्दान् परमाधार्मिकजनितान् शृण्वन्ति हत, छिन्द, भिन्तेत्येवं रूपान् । श्रुत्वा ते भयोद्धान्तलोचना नष्टान्तःकरणा नष्टसंज्ञाश्च कां दिशं व्रजामः कुत्र वैतदु:खस्य त्राणं स्यादिति कांक्षन्ति, खदिराझारसंनिभा ज्वालां ज्योतिर्मयीं भूमिमाक्रमन्तो दह्यमानाः करुणमाक्रन्दन्तीत्यादिरूपेण वेदना विज्ञयाः ।।