SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ तस्वन्यायविभाकरे . [द्वितीयकिरणे पापफलभोगिनस्ते नारका इत्यनुमानादपि तत्सिद्धेः, न चात्यर्थ ये दुःखितास्तिर्यङ्मनुष्यास्त एव प्रकृष्टपापफलभोगित्वान्नारकव्यपदेशभाजो नादृष्टनारकाः केचिदिति वाच्यम् , नरतिरश्वामुत्कृष्टपापफलभोक्तत्वाभावात् , येषामुत्कृष्टपापफलभोगस्तैश्च संभवद्भिस्सर्वैरपि दुःख प्रकारैर्युतैर्भवितव्यं, न चैक्मतिदुःखितानामपि तिर्यगादीनां दृश्यते, आलोकतरुच्छायाशीत5 पवनसरित्सरःकूपजलादिसुखस्यातिदुःखितेष्वपि तेषु दर्शनात् , छेदनभेदनपाचनदहनदम्भनवअकण्टकशिलास्फालनादिभिश्च नरकप्रसिद्धैः प्रकारैर्दुःखस्यादर्शनादिति ॥ ननु किमधोलोके सर्वत्र नारका एव वसन्ति नान्ये इत्याशंकायामाह- . - रत्नप्रभायाश्चाशीतिसहस्रोत्तरैकलक्षयोजनस्थूलाया योजनसहस्त्र मुपर्यधश्च विहायान्तर्जघन्यतो दशसहस्रवर्षायुष्काणामुत्कृष्टतः किश्चि10 दधिकसागरोपमायुष्काणां भवनपतीनां भवनानि वर्तन्ते । तत्रैव भागान्तरे रत्नप्रभीया नारका वसन्ति ॥ रत्नप्रभायाश्चेति । तस्याः स्थौल्यमाहाशीतिसहस्रेति, तावत्स्थूलायां न सर्वत्र भवनपतीनां भवनानि किन्तु परिमिते भाग इत्याह योजनसहस्रमिति, एक योजनसहस्रमुपर्यधश्चैकं योजनसहस्रं विहाय मध्येऽष्टसप्ततिसहस्राढथे लक्ष इत्य, तत्र केषां निवास इत्यत्राह 15 भवनपतीनामिति, भवनानां गृहविशेषाणां पतयोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वी पदिक्कुमारा दश देवविशेषास्तेषामित्यर्थः, भवनमायामापेक्षया किञ्चिन्न्यूनोच्छ्रायमानं, प्रासाद आयामद्विगुणोच्छ्रायः, बहिर्वृत्तान्यन्तस्समचतुरस्राणि अधःकर्णिकासंस्थानानि भवनानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा इति विशेषोऽवसेयः । भवनानीति, असुरादीनां विचित्रसंस्थानानि विमानानीत्यर्थः, अन्ये तु नव20 तियोजनसहस्राणामधस्ताद्भवनानि, अन्यत्र चोपरितनमधस्तनञ्च योजनसहस्रं मुक्त्वा सर्वत्रापि यथासम्भवमावासा इत्याहुः । तत्रासुरकुमारादीनां दक्षिणोत्तरदिग्भाविनां सर्वसंख्यया भवनानि चतुष्षष्टिलक्षा भवन्ति, नागकुमाराणां चतुरशीतिलक्षाः, सुपर्णकुमाराणां द्विसप्ततिलक्षाः, वायुकुमाराणां षण्णवतिलक्षाः, द्वीपकुमारदिक्कुमारोदधिकुमारविद्युत्कुमारस्तनितकुमाराग्नि कुमाराणां षण्णामपि दक्षिणोत्तरदिग्वर्तिश्लक्ष्णयुग्मरूपाणां प्रत्येकं षट्सप्ततिलक्षा भवन्ति । 25 भवनपतीनां स्थिति नियमयति जघन्यत इति, उत्कृष्टामाहोत्कृष्टत इति, एते भवनपतयः कुमारखदुद्धतभाषाऽऽभरणप्रहरणावरणयानवाहनत्वादुल्बणरागक्रीडनपरत्वाच्च कुमारा उच्यन्ते नन्वष्टसप्ततिसहस्राढये लक्षे रत्नप्रभायां यदि वासो भवनपतीनां नारकाणां तर्हि क वास इत्याशंकायामाहतत्रैवेति, तावन्मात्रायामेव रत्नप्रभायामित्यर्थः, ननु तर्हि तयोस्सांकर्य
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy