Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
तत्वन्यायविभाकरे
[द्वितीयकिरणे विहाय मध्ये नरका भवन्ति महातमःप्रभायान्तु मध्ये त्रिषु सहस्रेष्वेव नरका भवन्ति तेषु कुत्र कियदायुष्काः कीदृशाश्च नारका वसन्तीति शङ्कायामाह___ एतस्मिन् लोके रत्नप्रभादिक्रमेणोत्कर्षत एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमायुष्का जघन्यतो दशवर्षसहस्रकत्रिसप्त5 दशसप्तदशद्वाविंशतिसागरोपमायुष्का । अनवरताशुभतरलेश्यापरिणामशरीरवेदनाविक्रिया अन्योन्योदीरितदुःखा नारका वसन्ति ॥
एतस्मिन् लोक इति । अधोलोके व्यावर्णितस्वरूप इत्यर्थः, रत्नप्रभादिक्रमेणेति, रत्नप्रभायामुत्कर्षेणैकसागरोपमायुष्काइशर्कराप्रभायां त्रिसागरोपमायुष्कास्तृतीयायां सप्त
सागरोपमायुष्कास्तुर्यायां दशसागरोपमायुष्काः पञ्चम्यां सप्तदशसागरोपमायुष्काः षष्ठयां 10 द्वाविंशतिसागरोपमायुष्कास्सप्तम्यां त्रयस्त्रिंशत्सागरोपमायुष्का नारका निवसन्तीति भावः । किमेतन्न्यूनायुष्का न निवसन्तीत्यत्राहोत्कर्षत इति, नन्वेवं कुत्र कियन्न्यूनायुष्का वासयोग्या इत्यत्राह जघन्यत इति, प्रथमायां दशवर्षसहस्राणि द्वितीयायामेकसागरोपमं तृतीयायां त्रीणि सागरोपमाणि तुर्यायां सप्तसागरोपमाणि पञ्चम्यां दशसागरोपमाणि षष्ठयां सप्तदशसाग
रोपमाणि सप्तम्यां द्वाविंशतिसागरोपमाणि तेषां जघन्या स्थितिरिति भावः । नारकाणां 15 लेश्यादिदुःखानाहानवरतेति, अनवरतं या अशुभतरा लेश्यापरिणामशरीरवेदनाविक्रियास्ता
स्सन्त्येषामिति तादृशाः, अर्शआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । नरकगतिनरकपश्चेन्द्रियजात्योर्नियमादशुभतरलेश्यादिभिस्सम्बन्धः, निमेषमात्रमपि कदाचिन्न शुभलेश्यादीनां सम्भव इति सूचयितुमनवरतेति लेश्यादीनां विशेषणम् । कापोतनीलकृष्णास्तिस्र एव तीव्रतातार
तम्येन नारकाणां भवन्ति तथापि लेश्येति, सामान्यत उक्ति रकाणां सम्यक्त्वप्रतिपत्ते20 षडपि लेश्याः सम्भवन्तीति च सूचयितुम् । तत्र प्रथमायां कापोता तीव्रा, द्वितीयायां सैव
तीव्रतरा, तृतीयायां कापोता तीव्रतमा तीव्रा च नीला, तुर्यायां नीला तीव्रतरा, पञ्चम्यां
१. रत्नप्रभायां पृथिव्यामायामविष्कम्भाभ्यां नरका द्विविधाः संख्येयविस्तृता असंख्येयविस्तृताश्चेति तत्र ये संख्येयविस्तृतास्ते संख्येयानि योजनसहस्राणि आयामविष्कम्भेण, संख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्ताः येऽसंख्येयविस्तृतास्ते असंख्येयानि योजनसहस्राणि आयामविष्कम्भेण. असंख्येयानि योजनसहस्राणि परिक्षेपण, एवं षष्ठपृथिवीं यावत् । सप्तमपृथिव्यां द्विविधाः संख्येयविस्तृत एकः, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः । असंख्येयविस्तृताश्चत्वारः, ये असंख्येयविस्तृतास्तेऽसंख्येयानि योजनशतसहनाणि आयामविष्कम्भेण, असंख्येयानि योजनसहस्राणि परिक्षेपण । अप्रतिष्ठानाभिधानश्च एक योजनशतसहस्रमायामविष्कम्भेण, त्रीणि योजनशतसहस्राणि षोडशसहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः कोशा अष्टाविंश धनुश्शतं त्रयोदशांगुलानि अर्धाङ्गुलच्च किंचिद्विशेषाधिकं परिक्षेपेणेति ॥

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676