________________
लोकस्वरूपम् ] न्यायप्रकाशसमलङ्कृते
: ५७१ : ऊर्ध्वशतयोजनेविति । रत्नप्रभापृथिव्या व्यन्तरनगरोपरितनवर्जितशतयोजनेषु ऊर्ध्वमधश्च दश दश योजनानि मुक्त्वाऽशीतियोजनेषु अणपन्नियपणपन्नियप्रभृतीनां वानमन्तराणां देवानां निकायास्सन्तीति भावः, ननु देवानां भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदत. श्चतुर्निकायत्वमिति प्रज्ञापनातत्त्वार्थादावुक्तं तत्र ज्योतिष्कवैमानिको रुचकादूर्ध्व वर्तेते इति वक्ष्यते भवनपतिव्यन्तरौ तूक्तौ, इमे च वानमन्तराः के, किं देवा मनुष्या- 5 स्तियश्चो नारका वेत्याशंकायामाहैते चेति वानमन्तराश्चेत्यर्थः, व्यन्तराणामवान्तरभेदत्वादेते देवविशेषा एवेति भावः ॥ --
अथ तिर्यग्लोकं व्यावर्णयितुमादौ तिर्यग्लोकं स्वरूपयति
रुचकादुपर्यधश्चाष्टादशशतयोजनमितो व्यन्तरनरज्योतिषादिनिवासयोग्यो झल्लाकृतिस्तिर्यग्विशालश्शुभपरिणामी तिर्यग्लोकः॥ 10
रुचकादिति । यस्मादूर्ध्वमधश्च लोकस्य वृद्धिस्तस्माद्रुचकादित्यर्थः, तवं नवशतयोजनान्यधो नवशतयोजनानि मिलित्वा चाष्टादशशतयोजनानि भवन्ति तावत्परिमित इत्यर्थः, तत्र वासयोग्यानाह व्यन्तरेति, आकारमाह झल्लाकृतिरिति, सर्वत्र समतलस्तुल्य... विष्कम्भायामो वादिनविशेषो झल्लरी, तद्वत्तिर्यग्लोकसन्निवेशोऽल्पोच्छ्रायत्वात्तुल्यायामविष्कम्भरूपमहाविस्ताराञ्चेत्यर्थ ऊर्ध्वाधोमानस्यातिसंकोचादाह तिर्यग्विशाल इति, विष्कम्भा- 15 यामाभ्यामेकरज्जुप्रमाण इत्यर्थः । तिर्यग्लोक इति, यतः असंख्येयास्स्वयंभूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीपसमुद्रास्ततस्तिर्यग्लोकसंज्ञितः, अथवा तिर्यक्शब्दो मध्यमपर्यायः, तत्र क्षेत्रानुभावात्प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि सम्भवन्ति, अतस्तद्योगादयं लोकोऽपि तिर्यग्लोक इत्यर्थः ॥
के पुनस्तत्रावस्थिता इत्यत्राह- मध्यलोकाभिधाने तिर्यग्लोके पूर्वपूर्वापेक्षया द्विगुणविस्तारा असंख्याता वलयाकृतयो जम्बूद्वीपादिस्वयम्भूरमणसमुद्रान्ता द्वीपसमुद्रा- . स्सन्ति ॥
मध्यलोकाभिधान इति । तिर्यग्लोकस्यैव मध्यलोक इति नामान्तरम् , न तु लोकस्यास्य चतुर्दशरज्जुमानस्य मध्यत्वात् , ननु कथं तर्हि तिर्यग्लोकस्य मध्यलोक इति नामा- 25 न्तरमिति चेन्न मध्यमपरिणामद्रव्यपूर्णत्वात् , ऊर्ध्वाधोलोकव्यवहारान्यथानुपपत्ता, यन्नि