SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ तत्वग्यापविभाकरे (द्वितीयाहरणे ___ उपरितनेति । रत्नप्रभाया हि काण्डत्रयं भवति तत्रोपरितनं षोडशसहस्रयोजनमितं खरकाण्डं ततश्चतुरशीतिसहस्रयोजनमितं पङ्कबहुलं काण्डं, ततश्चाशीतिसहस्रयोजनमितं जलबहुलं तत्र खरकाण्डस्योपरितनयोजनसहस्रस्योर्ध्वमधश्चैकैकं योजनशतं विहाय मध्येऽष्टशतयोजने व्यन्तराणां नगराणि बहिर्विभागे वृत्तानि चतुरस्राण्यन्तरेऽधोभागे चारुपुष्कर5 कर्णिकानुकारीणि नगराण्यासत इति भावः, व्यन्तराणामिति, अन्तरमवकाशः तच्चाश्रय रूपं, विविधं भवननगरावासरूपमन्तरं येषां ते व्यन्तराः, तत्रोपर्युक्तस्थाने भवनानि, नगराण्यपि तिर्यग्लोके यथा जम्बूद्वीपद्वाराधिपतेर्विजयदेवस्यान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, आवासास्त्रिष्वपि लोकेषु तत्रोयलोके पण्डकवनादाविति । अथवा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् 10 भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तराः, एते हि देवनिकायविशेषाः पूर्वोदिताष्टशतयोजनेषूत्पन्नास्सन्तस्त्रिलोक्यामूर्ध्वमधस्तियक्षु च स्वभवननगरावासेषु स्वभावानवस्थितेर्बालवत्स्वातंत्र्याइवेन्द्राद्याज्ञया वा बाहुल्येनानियतगतिप्रचारा गिरिकन्दरान्तरारण्यविवरादिषु प्रतिवसन्तीति भावः । एते चाष्टविकल्पा इत्याह पिशाचाद्यष्टविधानामिति, पिशाचभूतराक्षसयक्षगन्धर्वमहोरगकिम्पुरुषकिन्नररूपेणाष्टविधानामित्यर्थः । देवगतिनाम15 कर्मोत्तरप्रकृतिविशेषोदयादेते विशेषसंज्ञाः पिशाचनामकर्मोदयात्पिशाचाः भूतनामकर्मोदया द्भूता इत्येवमादिरूपाः न तु पिशिताशनात्पिशाचा इति क्रियानिमित्ताः शुचिवैक्रियदेहत्वादशुच्यौदारिकशरीरसम्पर्कासम्भवात् , न च मांसमदिरादिषु पिशाचादीनां प्रवृत्तिलोके दृष्टेति वाच्यम् , क्रीडासुखनिमित्तत्वान्मानसाहाररूपत्वाचेति । एषां नघन्योत्कृष्टस्थितिमाह जघन्यत इति, उत्कृष्टत इति, योजनविस्तीर्ण योजनोच्छ्रायं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजाता. 20 नामङ्गलोमभिर्गाहें पूर्ण स्यात्, वर्षशतावर्षशतादेकैकस्मिन्नुद्धियमाणे यावता कालेन तद्रिक्तं स्यात्तावान् कालः पल्योपमं बौद्धिकव्यवहारेणोच्यते व्यन्तराश्चैतादृशैकपल्योपमायुष्का भवन्तीति भावः ।। अथ वानमन्तरानाह ऊर्ध्वशतयोजनेषु चोपर्यधश्च दशयोजनानि विहाय मध्ये वानमन्तर25 निकाया निवसन्ति । एते च व्यन्तराणामवान्तरभेदाः॥ १. चक्रं रत्नभूतः प्रहरणविशेषः तेन विजयाधिपत्ये वर्तितुं शीलमस्येति चक्रवर्ती भरतक्षेत्रे भरतादयो द्वादश चक्रवर्तिनोऽस्यामवसर्पिण्यामभूवन् , त्रिखण्डभरताधिपो बलदेवलघुभ्राता वासुदेवः, अवसर्पिण्यां ते नव उत्सर्पिण्यां च नव भवन्ति ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy