Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 593
________________ :५४२: तत्त्वन्यायविभाकरे [ प्रथमकिरणे अन्नपानादिभिः परिरक्षणमित्यादिरूपाः, तदनुष्ठाने प्रवृत्तिः परिणामविशेषः परितः सर्वतो भावेन वृत्तिः प्रवृत्तिरिति व्युत्पत्त्या तल्लाभात् , न ह्यपरिणतः सर्वतो भावेन वर्तितुं शक्यः । शास्त्रोदितविधिनेत्युक्तत्वात्प्रवचनवात्सल्यमपि वैयावृत्त्यस्य फलम् , तथा च महानिर्जरास नाथत्वप्रवचनवात्सल्यविचिकित्साऽभावतीर्थकरनामकर्मबन्धादयोऽस्य फलमिति सिद्धम् । 5 आचार्यादीनां दशानां भक्तपानशय्यासनक्षेत्रोपधिप्रत्युपेक्षणभेषजदानाध्वोपग्रहशरीरोपधि स्तेनसंरक्षणदण्डग्रहग्लानशुश्रूषणमूत्रिकत्रिकढौकनरूपत्रयोदशभिः पदैवैयावृत्त्यं कर्त्तव्यम् , तत्राचार्यादीनाह तञ्चेति, वैयावृत्त्यश्चेत्यर्थः, दशस्वामिकत्वादशविधत्वं वैयावृत्त्यस्येति भावः। अत्राचार्यपदेन तीर्थंकरोऽपि गृहीतस्तेन तीर्थकरवैयावृत्त्याकथनप्रयुक्ता न न्यूनता, न च तीर्थकरत्रिलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन स गृहीत इति वाच्यम्, 10 पञ्चविधाचारोपदेशकत्वे सति स्वयमप्यनुष्ठातृत्वस्यैवाचार्यपदप्रवृत्तिनिमित्तत्वेन तस्य तीर्थ__ करसाधारण्यात् । तीर्थकरस्य धर्माचार्यत्वप्रसिद्धेश्च । एतेषां दशानां प्रत्येकं त्रयोदशभिः पदैवैयावृत्त्यं कर्त्तव्यमिति भावः ॥ ___ तत्राचार्य स्वरूपयति-- ज्ञानाद्याचारे प्रधान आचार्यः। स पञ्चविधः प्रव्राजको दिगाचार्यः 15 श्रुतोदेष्टा श्रुतसमुद्देष्टाऽऽम्नायार्थवाचकश्चेति ॥ . ज्ञानाद्याचार इति । आदिना दर्शनचारित्रतपोवीर्याणां ग्रहणम् । तत्र प्रधानः स्वयं करणात् प्रभाषणात् प्रदर्शनाच्च । अयमाचार्यः सूत्रार्थतदुभयोपेतो ज्ञानदर्शनचारित्रेषु कृतोपयोगो गच्छचिन्ताविप्रमुक्तः शुभलक्षणोपेतश्च भवति, तद्गुणाश्च षट्त्रिंशत् , तत्र पञ्च गुणा ज्ञानादय उक्ता एव, इतरे गुणाश्च देशकुलजातिरूपसंहननधृतियुक्तताकांक्षा20 बहु भाषामायावैधुर्यसूत्राद्यनुप्रयोगपरिपाटीदाढयोपादेयवचनपर्षजयाल्पनिद्रत्वमाध्यस्थ्यदेश कालभावज्ञत्वप्रतिभाविविधदेशभाषाज्ञानसूत्रार्थतदुभयविधिज्ञत्वदृष्टान्तहेतूपनयनयनैपुण्यप्र-- तिपादनशक्तिस्वपरसमयवेत्तृत्वगाम्भीर्यदीप्तिकल्याणकारित्वशान्तदृष्टित्वरूपा विज्ञेयाः । सम्यग्ज्ञानादिगुणाधाराद्यस्मादाहत्य व्रतानि स्वर्गापवर्गसुखामृतबीजानि भव्या हितार्थ माचरन्ति स आचार्यः । अथवा ज्ञानादीत्यादिना दर्शनचारित्रतपसां ग्रहः, ज्ञानादीना25 - १. चतुर्विधः सामान्येनाचार्यः, इहलोके हितो न परलोके, परलोके हितो नेहलोके, इहलोके हितो. ऽपि परलोके हितः नेहलोके हितो नापि परलोके हित इति । तत्र यो भक्तवत्रपात्रपानादिकं समस्तमपि साधूनां पूरयति न पुनस्संयमे सीदतस्सारयति स इहलोके हितोऽपि साररहितो न परलोकहितः। यश्च संयमयोगेषु प्रमाद्यतां सारणां करोति नच वस्त्रादिकं प्रयच्छति स द्वितीयः । एवमेव तृतीयचतुर्थों भाव्यौ ।

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676