________________
:५४२: तत्त्वन्यायविभाकरे
[ प्रथमकिरणे अन्नपानादिभिः परिरक्षणमित्यादिरूपाः, तदनुष्ठाने प्रवृत्तिः परिणामविशेषः परितः सर्वतो भावेन वृत्तिः प्रवृत्तिरिति व्युत्पत्त्या तल्लाभात् , न ह्यपरिणतः सर्वतो भावेन वर्तितुं शक्यः । शास्त्रोदितविधिनेत्युक्तत्वात्प्रवचनवात्सल्यमपि वैयावृत्त्यस्य फलम् , तथा च महानिर्जरास
नाथत्वप्रवचनवात्सल्यविचिकित्साऽभावतीर्थकरनामकर्मबन्धादयोऽस्य फलमिति सिद्धम् । 5 आचार्यादीनां दशानां भक्तपानशय्यासनक्षेत्रोपधिप्रत्युपेक्षणभेषजदानाध्वोपग्रहशरीरोपधि
स्तेनसंरक्षणदण्डग्रहग्लानशुश्रूषणमूत्रिकत्रिकढौकनरूपत्रयोदशभिः पदैवैयावृत्त्यं कर्त्तव्यम् , तत्राचार्यादीनाह तञ्चेति, वैयावृत्त्यश्चेत्यर्थः, दशस्वामिकत्वादशविधत्वं वैयावृत्त्यस्येति भावः। अत्राचार्यपदेन तीर्थंकरोऽपि गृहीतस्तेन तीर्थकरवैयावृत्त्याकथनप्रयुक्ता न न्यूनता, न च तीर्थकरत्रिलोकाधिपतिराचार्यस्तु सामान्य इति कथमाचार्यग्रहणेन स गृहीत इति वाच्यम्, 10 पञ्चविधाचारोपदेशकत्वे सति स्वयमप्यनुष्ठातृत्वस्यैवाचार्यपदप्रवृत्तिनिमित्तत्वेन तस्य तीर्थ__ करसाधारण्यात् । तीर्थकरस्य धर्माचार्यत्वप्रसिद्धेश्च । एतेषां दशानां प्रत्येकं त्रयोदशभिः पदैवैयावृत्त्यं कर्त्तव्यमिति भावः ॥ ___ तत्राचार्य स्वरूपयति--
ज्ञानाद्याचारे प्रधान आचार्यः। स पञ्चविधः प्रव्राजको दिगाचार्यः 15 श्रुतोदेष्टा श्रुतसमुद्देष्टाऽऽम्नायार्थवाचकश्चेति ॥
. ज्ञानाद्याचार इति । आदिना दर्शनचारित्रतपोवीर्याणां ग्रहणम् । तत्र प्रधानः स्वयं करणात् प्रभाषणात् प्रदर्शनाच्च । अयमाचार्यः सूत्रार्थतदुभयोपेतो ज्ञानदर्शनचारित्रेषु कृतोपयोगो गच्छचिन्ताविप्रमुक्तः शुभलक्षणोपेतश्च भवति, तद्गुणाश्च षट्त्रिंशत् , तत्र
पञ्च गुणा ज्ञानादय उक्ता एव, इतरे गुणाश्च देशकुलजातिरूपसंहननधृतियुक्तताकांक्षा20 बहु भाषामायावैधुर्यसूत्राद्यनुप्रयोगपरिपाटीदाढयोपादेयवचनपर्षजयाल्पनिद्रत्वमाध्यस्थ्यदेश
कालभावज्ञत्वप्रतिभाविविधदेशभाषाज्ञानसूत्रार्थतदुभयविधिज्ञत्वदृष्टान्तहेतूपनयनयनैपुण्यप्र-- तिपादनशक्तिस्वपरसमयवेत्तृत्वगाम्भीर्यदीप्तिकल्याणकारित्वशान्तदृष्टित्वरूपा विज्ञेयाः । सम्यग्ज्ञानादिगुणाधाराद्यस्मादाहत्य व्रतानि स्वर्गापवर्गसुखामृतबीजानि भव्या हितार्थ
माचरन्ति स आचार्यः । अथवा ज्ञानादीत्यादिना दर्शनचारित्रतपसां ग्रहः, ज्ञानादीना25 -
१. चतुर्विधः सामान्येनाचार्यः, इहलोके हितो न परलोके, परलोके हितो नेहलोके, इहलोके हितो. ऽपि परलोके हितः नेहलोके हितो नापि परलोके हित इति । तत्र यो भक्तवत्रपात्रपानादिकं समस्तमपि साधूनां पूरयति न पुनस्संयमे सीदतस्सारयति स इहलोके हितोऽपि साररहितो न परलोकहितः। यश्च संयमयोगेषु प्रमाद्यतां सारणां करोति नच वस्त्रादिकं प्रयच्छति स द्वितीयः । एवमेव तृतीयचतुर्थों भाव्यौ ।