________________
वैयावृत्यभेदाः ]
म्यायप्रकाश समलङ्कृते
माचारे प्रधानः सः, तद्गुणसमन्वितत्वात् । तथाहि ज्ञानाचारस्य कालविनयादयोऽष्टौ गुणाः, दर्शनाचारस्य निःशङ्कितत्वादयोऽष्टौ, चारित्राचारस्येर्या समित्यादयोऽष्टौ, बाह्याभ्यन्तरभेदभिन्नस्य तपसोऽनशनादयो द्वादशभेदास्तथा च ज्ञानाद्याचारविषयक षट् त्रिंशद्गुणयुक्त आचार्य इति फलितार्थः, अयञ्चार्थमेव केवलं भाषते नतु सूत्रमपि वाचयति । ननु कुतोऽयं सूत्रं न वाचयति, उच्यते, अर्थचिन्तायां ह्यस्यैकाग्रताऽर्थव्याख्यानार्थम्, यदि पुनस्सूत्रमपि 5 वाचयेत्तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात्, एकाप्रतया ह्यर्थं चिन्तयतः सूत्रेषु सूक्ष्मार्थोन्मीलनात्सूत्रार्थस्य वृद्धिरुपजायते, तीर्थकरानुकारित्वाच्चाचार्यस्य, तीर्थकृतो हि केवलमर्थमेव भाषन्ते नतु सूत्रं नवा गणचिन्तां कुर्वन्ति तथाऽऽचार्या अपि, सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते तस्या उपाध्यायादिभिः क्रियमाणत्वात् । तस्य किश्चिद्गुणप्राधान्यौपाधिकं प्रभेदमाह स इति आचार्य इत्यर्थः ॥
तत्र प्रव्राजकादीनां स्वरूपाण्याह
:- ५४३
सामायिकादिवतारोपयिता प्रव्राजकः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्य: । प्रथमत आगमोपदेष्टा श्रुतोद्देष्टा । उद्दिष्टगुर्वाद्यभावे स्थिरपरिचितकारयितृत्वेन सम्यग्धारणानुप्रवचनेन च तस्यैवागमस्य समुद्देष्टा अनुज्ञाता वा श्रुतसमुद्देष्टा । आम्नायस्योत्सर्गापवादात्मकार्थप्रवक्ता आम्नायार्थवाचकः ॥
10
15
सामायिकेति । आत्मार्थं परार्थं वा सामायिकादेर्व्रतस्य केवलमारोपयिता प्रत्राजकाचार्य इत्यर्थः । दिगाचार्यस्वरूपमाह सचित्तेति, स्पष्टम् गुर्वादिष्टदिग्वर्त्ति साधूनां सारणादिकर्त्तारोऽपि दिगाचार्याः । श्रुतोद्देष्टारमाह प्रथमत इति, विशदं मूलम् । श्रुतसमुद्देष्टारमाचष्टे - उद्दिष्टेति, पूर्वोद्दिष्टगुर्वाद्यभाव इत्यर्थः, उद्दिष्टं स्थिरपरिचितं कुरु, 20 सम्यग्धारय, अन्याश्च प्रवेदयेति समकालं भिन्नकालं वा समुद्देशकोऽनुज्ञापको वा श्रुतसमुद्देष्टेति भावः । आम्नायार्थवाचकमभिधत्ते - आम्नायस्येति, आम्नायस्यागमस्य, उत्सर्गः सामान्येनोक्तो विधिर्यथा त्रिविधं त्रिविधेन प्राणातिपातविरतिः, अपवादः, विशेषेणोक्तो विधिः, यथा ' पुढवाइसु आसेवा उप्पण्णे कारणम्मि जयणाए । मिगरहिस्स ठियस्स अववाओ होइ नायव्वो " इति । तदेवं उत्सर्गमपवादमुत्सर्गापवादच 25 यथावत्परिज्ञाय सूत्रार्थानामुपदेशक इत्यर्थः ॥
अथोपाध्यायं परिचाययति-