________________
तस्वम्यापविभाकरे
[प्रबनविरण __आचारविषयविनयस्य स्वाध्यायस्य वाऽऽचार्यानुज्ञया साधूनामुपदेशक उपाध्यायः॥
आचारेति, आचारः ज्ञानदर्शनचारित्रतपोवीर्यात्मना पश्चविधः, तद्विषयकविनयस्य स्वाध्यायस्य वाचना प्रच्छनापरावर्तनानुप्रेक्षाधर्मोपदेशात्मना पञ्चविधस्याचार्यानुज्ञया साधूना5 मुपदेशकः, उप, समीपमागत्याधीयते, आधिक्येन गम्यते स्मयते सूत्रतो जिनप्रवचनं येनेत्युपाध्यायः, यो द्वादशाङ्गः स्वाध्यायः प्रथमतो जिनैरागतस्ततो गणधरादिभिः कथितः तं स्वाध्यायं सूत्रतश्शिष्यानुपदिशति स उपाध्यायः, स हि सूत्रवाचनां शिष्येभ्यो यच्छन् स्वयमर्थमपि परिभावयति, तस्य तदर्थे स्थिरत्वमुपजायते, ऋणस्यापि सूत्रलक्षणस्य वाचनाप्रदानेन
मोक्षः कृतो भवति, उत्तरकाले चाचार्यपदाध्यासेऽत्यन्ताभ्यस्ततया यथावस्थिततया स्वरूपस्य 10 सूत्रस्यानुवर्त्तनं भवति, येऽन्यतो गच्छान्तरादागत्य साधवस्सूत्रोपसम्पदं गृह्णते ते प्रतीच्छका
उच्यन्ते ते च सूत्रवाचनाप्रदानेनागृहीता भवन्ति, मोहस्य जयोऽपि कृतो भवति, सूत्रवाचनादानव्यग्रस्य प्रायश्चित्तविश्रोतसिकाया अभावात् । अतः उपाध्यायस्सूत्रं वाचयेदिति ।।
तपस्विनं शैक्षकश्चाह
किश्चिदूनषण्मासान्तोग्रतपोऽनुष्ठाता तपस्वी। अनारोपितविविक्त15 व्रतश्शिक्षायोग्यशैक्षकः ॥
किञ्चिदिति । दशमादिकिञ्चिन्यूनषण्मासान्तमुप्रस्य भावविशुद्धस्य अनिश्रितस्याल्पसत्त्वभयानकस्य वा तपसोऽनुष्ठातेत्यर्थः । अनिश्रितं तपो नाम शुभयोगसंग्रहाय परसाहाय्यानपेक्षं भावतपः। अथ शैक्षकमाह अनारोपितेति, अनारोपितं विविक्तं दोषरहितं व्रतं यस्य तादृशः, शिक्षायोग्यश्च शैक्षकः, अभिनवप्रव्रजितो ग्रहणासेवनाशिक्षायोग्यः तत्र शैक्षको20 द्विविधः, आज्ञया परिणामको दृष्टान्तेन परिणामकश्चेति, तदेव सत्यं यजिनैः प्रवेदित
मित्येवं यो निस्संशयं श्रद्धधाति न च कारणमपेक्षते स आज्ञापरिणामक उच्यते, यस्तु लिङ्गेन गम्यमर्थं प्रत्यक्षप्रसिद्धदृष्टान्तेनात्मबुद्धावारोपयन् वर्त्तते स दृष्टान्तपरिणामक उच्यते । सप्तरात्रिन्दिवचतुर्मासषण्मासैजघन्यमध्यमोत्कृष्टरूपैरुपस्थाप्यतेऽयम् ॥ अथ ग्लानमाह
अपटुाध्याक्रान्तो मुनिगर्लानः ॥ । अपटुरिति । भिक्षादिकं कर्तुमसमर्थः ज्वरादिव्याध्याक्रान्त इत्यर्थः । अस्य वैयावृत्त्य कार्यमन्यथा प्रायश्चित्तभाक् स्यात् , तस्माद्भगवदाज्ञामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया
25