________________
वैयावृत्यमैदाः ]
म्यायंप्रकाशसमलङ्कृते
: ५४५ :
ग्लाने समुत्पन्ने मायाविप्रमुक्तेन यत्र कुत्रापि स्थितेन त्वरितमागन्तव्यमेवं कुर्वता साधर्मि - कवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति, तत्राशक्तत्वमप्रशस्यभाषाऽपमानं लुब्धत्वमुद्भाव्य प्रतिबन्धयतः प्रायश्चित्तं स्यादिति ॥
गणं कुलचाह—
श्रुतस्थविरपरम्परानुयायी गणः । एकजातीयानेकगच्छसमूहः कुलम्।। 5 श्रुति । श्रुतेनागमेन स्थविरो वृद्धः श्रुतस्थविरस्तृतीयचतुर्थाङ्गधरस्साधुस्तत्परंपरानुगमनशीलो गण इत्यर्थः, श्रुतेति विशेषणेन वयसा पर्यायेण वा वृद्धस्य न ग्रहणम् । वयस्थविरसप्तत्यादिवर्षजीवितः, पर्यायस्थविरः यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि गतानि सः, पदेन स्थविरस्तु प्रवर्तितव्यापारान् संयमयोगेषु सीदतस्साधून ज्ञानादिष्वैहिकाऽऽमुष्मिकापायदर्शनतः स्थिरीकर्त्ता, कुलसमुदायो वा गणो भाव्यो यथा कौटिकादिः, कुलमाह एक- 10 जातीयेति, बहूनां गच्छानामेकजातीयानां समूहः कुलमित्यर्थो यथा चान्द्रादि । गच्छ विहितमुनिवृन्दरूप एकाचार्यप्रणीतो जघन्यतस्त्रिपुरुषप्रमाणः साधुसमुदायरूपत्वात् चतु:पञ्चप्रभृतिपुरुषसंख्याका मध्यमा गच्छाः, द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे साधूनामुत्कृष्टा संख्या यथा श्री ऋषभस्वामिप्रथमगणधरस्य भगवतो ऋषभसेनस्य । अशुभ फलप्रदत्वादसदाचारगच्छसंवासपरिहारपूर्वकं परमशुभफलदत्वादिहपरलोकहितार्थं सदाचारगच्छसंवासः 15 कार्यः । तत्र वसतां हि महती निर्जरा भवति, सारणावारणाचोदनादिभिर्दोषावाप्तेरभावात् विस्मृते क्वचित्कर्तव्ये भवतेदं न कृतमिति सारणा, अकर्त्तव्यानां निषेधो वारणा, संयमयोगेषु स्खलितस्याऽयुक्तमेतद्भवादृशामित्यादिस्वरमधुरवचनैः प्रेरणं चोदना । षड्डिधानां जीवानां बाधा मरणान्तेऽपि यत्र करणत्रयैर्न क्रियते मुनिभिस्स गच्छ इति ॥
अथ संघमाह
-
ज्ञानदर्शन चरणगुणवान् श्रमणादिः सङ्घः ॥
ज्ञानदर्शनेति । गुणरत्नपात्रभूतसत्त्वसमूहः सङ्घः कोऽयं समूहः तादृश इत्यत्राह श्रमणादिरिति, आदिना श्रमणी श्रावक श्राविकानां ग्रहणम् । श्राम्यन्ति तपस्यन्तीति श्रमणाः । शृण्वन्ति जिनवचनमिति श्रीवकाः । तीर्थङ्करवन्दनीयं सङ्घ ज्ञानादिगुणरूपं न तिरस्कुर्यात् सङ्घाद्बहिष्करणभयेन श्रुतकेवलिनापि सङ्घो मानितः तस्मात्सङ्घः पूज्य इति ।।
१ श्रावकत्वं न श्रवणमात्रनिबन्धनं तथा च सति श्रोत्रेन्द्रियलब्धिमतां सर्वेषां श्रावकत्वं स्यादित्यत्रो कं जिनवचनमिति, जिनवचनमाप्तागमो न पुनरनाप्तागमः तस्याप्रमाणत्वेन परलोकहितत्वासम्भवाच्छ्रवणवैयर्थ्यापत्तेः,
६९
20
25