________________
तत्वन्यायविभाकरे
[ प्रथमकिरणे - अथ साधुस्वरूपमाचष्टे
ज्ञानादिपौरुषेयशक्तिभिर्मोक्षसाधकः साधुः ॥ ज्ञानादीति । ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितस्साधुरित्यर्थः, शास्त्रोक्तगुणी साधुन शेषास्तद्गुणरहितत्वात् व्यतिरेकतस्सुवर्णवत् सुवर्ण हि विषघाति रसायनं वयस्स्त5 म्भनं मङ्गलप्रयोजकं कटकादियोग्यतया प्रदक्षिणावर्त्तमग्नितप्तं प्रकृत्या गुरु सारतयाऽदाह्यं
सारतयैवाकुथनीयमित्यसाधारणाष्टगुणविशिष्टं तथैव साधुरपि मोहविषघातकः केषांचिद् वैद्योपदेशाद्रसायनं भवति, अत एव परिणतान्मुख्यं गुणतश्च मङ्गलार्थं करोति प्रकृत्या विनीतः सर्वत्र मार्गानुसारिप्रदक्षिणावर्त्तता गम्भीरश्चेतसा गुरुः क्रोधाग्निनाऽदाह्यस्सदो.
चितेन शीलभावेनाकुथनीयश्च भवति तथा च यथा निखिलगुणयुक्तमेव सुवर्ण तात्त्विकं, न 10 तु नामरूपमात्रेण गुणेन युक्तं, तथैव शास्त्रोदितमूलगुणैरेव साधुर्भवति, न पुनर्गुणरहितस्सन् यो भिक्षामटति स इति ॥ इदानीं समनोज्ञमाह--
एकसामाचारीसमाचरणपरस्साधुः समनोज्ञः ॥ एकेति । समाचरणं समाचारः, शिष्टाचरितक्रियाकलापः, तद्भावष्यजन्तेन स्त्रीत्व. 15 विवक्षायां ङीषि सामाचारीति पदसिद्धिः, सा च त्रिधा ओघसामाचारी दशविधसामा
चारी पदविभागसामाचारी चेति । संक्षेपतः क्रियाकलापः ओघसामाचारी, इच्छाकारादिलक्षणा दशविधसामाचारी, पदविभागसामाचारी छेदसूत्राणीति तत्रैकस्यां सामाचाऱ्यां वर्तमानस्साधुः समनोज्ञ इत्यर्थः ।
अथ ब्रह्मचर्यगुप्तिमाह20 वसतिकथानिषद्येन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीतातिमात्राऽऽहारभू
षणगुप्तिभेदेन ब्रह्मचर्यगुप्तिनवधा ।
तत्रापि साक्षात्परलोकहितं ग्राह्य, तेन ज्योतिषप्राभृतिकादेरभिप्रायविशेषेण परलोकहितत्वेऽपि न क्षतिः, श्रवणमपि न प्रत्लनीकादिभावेन, तेन तथा शृण्वतां न धावकत्वप्रसङ्गः । उपयोगपूर्वकमित्यपि विवक्षणीयम् , तेनानुपयोगेन शृण्वतो व्यवच्छेदः । इदञ्च श्रावकत्वमत्युत्कटज्ञानावरणमिथ्यात्वादिविनाशाल्लभ्यत इति ॥
१ तत्रौघसामाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात्तत्रापि विंशतितमात्प्राभृतात् तत्राप्योघप्राभृतात् नि डेति, एतदुक्तं भवति साम्प्रतकालप्रवजितानां तावच्छतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य. प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षड्विंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रवजितपरिज्ञानार्थ नियूंढेति । पदविभागसामाचार्य्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव नियूंढेति ॥