________________
ब्रह्मचर्यगुप्तिः ]
न्यायप्रकाशसमलङ्कृते वसतीति । भूषणान्तं द्वन्द्वस्ततो गुप्त्या तत्पुरुषः । बह्मचर्यगुप्तिमैथुनविरतिव्रतस्य रक्षाप्रकारः, नवविधगुप्तिसेवनाद्धि सर्वकालं प्रमादरहितस्सन्नप्रतिबद्धविहारितया गुप्तीब्रह्मचारी चरेदिति ॥ अथ वसतिगुप्तिमाह
___ स्त्रीषण्डादिवासस्थानवर्जनं वसतिगुप्तिः॥ 5 स्त्रीति । स्त्रियो दिव्या मानुष्यो वा षण्डो महामोहकर्मा स्त्रीपुंससेवनाभिरतः आदिना पशवो ग्राह्याः तदाकीर्णवसतौ शयनासनादीन्युपभुञ्जानस्य ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये स्वस्य किमेतास्सेवे उत नेति परेषां वा किमसावेवंविधशयनासनादिसेवी ब्रह्मचार्युत नेति संशयस्समुपजायते, ख्यादिभिरत्यन्तापहृतचित्तत्वाच्च विस्मृतसकलाप्तोपदेशस्य ' अस्मिन्नसारे संसारे सारं सारङ्गलोचने ' त्यादिकुविकल्पान् विकल्पयतो मिथ्यात्वोदयतः कदाचि- 10 देतत्परिहार एव तीर्थकृद्भिर्नोक्तः, एतदासेवने वा यो दोष उक्तस्स दोष एव न भवतीत्येवंरूपा विचिकित्सा स्यात्, धर्म प्रत्यपि किमेतावतः कष्टानुष्ठानस्य फलं भविष्यति न वेति संशयः स्यात् , ततश्च केवलित्रज्ञप्ताद्धर्माच्छूतचारित्ररूपात् समस्ताद्भश्येत् तस्मात्स्त्रीषण्डाद्याकीर्णतारहितानि शयनासनस्थानादीनि यः सेवते स एव निर्ग्रन्थो द्रव्यभावग्रन्थान्निष्क्रान्तत्वादतः तादृशशयनासनस्थानादिपरिवर्जनं वसतिगुप्तिरिति भावः ।। कथागुप्तिमाह
रागानुबन्धिस्त्रीसंलापचरित्रवर्णनपरित्यागः कथागुप्तिः ।। रागेति । एकाकिनीनां स्त्रीणां रागानुबन्धिनस्सॅल्लापाः, 'कर्णाटी सुरतोपचारचतुरा लाटी विदग्धप्रिये' त्यादिरूपाः कथाश्च ब्रह्मचर्यगुप्तिकामेन सर्वथा परित्याज्याः, अन्यथा पूर्वोदितरीत्या संशयादयो भवेयुः, देशजातिकुलनेपथ्यभाषागतिविभ्रमगीतहास्य- 20 लीलाकटाक्षप्रणयकलहशृङ्गाररसानुविद्धाः कामिनीनां कथा हि रागनुबन्धिन्यः, ता अवश्यमिह मुनीनामपि मनोविक्रियां नयन्तीति तासामपि परित्यागः कार्य इति भावः ॥
15
१ यस्संयतः कषायादिप्रमादेन रागद्वेषवशं गतो न तु मध्यस्थः परिकथयति किञ्चित्सा विकथा, सा च न कथनीया, तथाविधपरिणामविशेषकारणत्वाद्वक्तृश्रोत्रोः, शृङ्गाररसेन मन्मथदीपिकया तयोत्तेजितश्चारित्रमोहनीयकर्मोदयप्रयुक्तात्मपरिणामरूपो मोहो जायते तस्मात्स्वपरात्मनोरुभयोर्वा पापोपादानभूतां कथां न कुर्यादिति तथा च तपस्संयमगुणधारिणश्चरणरताः तां कथां कथयेयुर्या सर्वजीवहितकरा निर्जराख्यफलसाधना कर्तृणां श्रोतृणामपि चेतः कुशलपरिणामनिबन्धनेति ॥