SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ :५४८: तत्स्वन्यायविभाकरे [प्रथमकिरणे निषद्यागुप्तिमाह-- ___ रुयासनपरिवर्जनं निषद्यागुप्तिः॥ स्त्रीति । स्त्रीणां यदासनं यत्र ताभिस्सह नोपविशेदुत्थितास्वपि मुहूत्तं तत्र नोपवेष्टव्यमिति सम्प्रदायः, यश्चैवंविधस्स निम्रन्थः, अन्यथोक्तदोषप्रसङ्गः स्यादतस्तदासनं सर्वथा 5 परिहरणीयमिति भावः ॥ इन्द्रियगुप्ति कुड्यान्तरगुप्तिञ्चाह रागप्रयुक्तरुयङ्गोपाङ्गविलोकनत्यजनमिन्द्रियगुप्तिः । एककुड्यान्तरितमैथुनशब्दश्रवणस्थानपरित्यागः कुड्यान्तरगुप्तिः॥ रागेति । अनुरागेण वनितानामङ्गोपाङ्गानां निरीक्षणत्यागः कार्यः, तासां नयनना10 सिकादीनि निरीक्षितमात्राण्यपि चेतो हरन्ति तथा दर्शनानन्तरं विभाव्यमानानि चेतो दूष. यन्ति, ततस्तेषां सम्यग्दर्शनं ततश्चाहो ! सलवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्येवं विचिन्तनञ्च ब्रह्मचर्यभङ्गप्रसङ्गेन नैव कार्यमिति भावः । कुड्यान्तरगुप्तिमाह एकेति, कुड्यं कटादिरचितं पक्केष्टकादिनिर्मिता वा भित्तिः तयाऽन्तरितेऽपि स्थाने यत्र विविधविहगादि भाषया अव्यक्तशब्दः सुरतसमयभावी रुदितशब्दः रतिकलहादिरूपः मानिनीकृतः गीत15 शब्दो वा पञ्चमादिहुंकृतिरूपो हसितशद्रो वा श्रूयते तादृशस्थानपरित्यागः कार्य इति भावः॥ पूर्वक्रीडितप्रणीतगुप्ती प्राह प्राक्तनतकीडास्मरणवैधुर्यं पूर्वक्रीडितगुप्तिः । अतिस्निग्धमधुराद्या. हारपरिहारः प्रणीतगुप्तिः ॥ ....... प्राक्तनेति । पूर्व गृहस्थावस्थाकाले स्यादिभिस्सह विषयानुभवस्य कृतस्य दुरोदरादि20 स्मणस्य चानुचिन्तना न विधेया तथाच सति ब्रह्मचर्यरक्षणं भवेदिति भावः । अथ प्रणीतगुप्तिमाह अतिस्निग्धेति, गलत्स्नेहरसमत्यन्तधातूद्रेककारिणमाहारं पानभोजनादिकं वर्जयेदित्यर्थः ॥ आहारगुप्तिं भूषणगुप्तिश्चाह मानाधिकाऽऽहारपरिवर्जनमतिमात्राहारगुप्तिः । स्नानविलेपनादि25 शरीरशुश्रूषावर्जनं भूषणगुप्तिः ।।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy