Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 602
________________ करणम् ] म्यायप्रकाशसमलङ्कृते अथ द्वितीयः किरणः ॥ मूलगुणसद्भाव एव मोक्षार्थिभिस्साधुभिर्यनिष्पाद्यते तत्करणं सप्ततिविधमित्याह - पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्यभिग्रहभेदेनाष्टविधमपि करणमवान्तरभेदात्सप्ततिविधम् ॥ पिण्डविशुद्धीति । सप्ततिविधमिदमुत्तरगुणरूपं बोध्यम् ॥ अथैतान् सप्रभेदान् व्याख्यातुकामः प्रथमं पिण्डविशुद्धिमाह - सर्वदोषरहिताऽऽहारोपाश्रयवस्त्रपात्रपरिग्रहात्मिकाश्चतस्रः पिण्ड : ५५१ : " 5 विशुद्धयः ॥ सर्वेति । पिण्डनं पिण्डः, बहूनां सजातीयानां विजातीयानां कठिनद्रव्याणां एकत्र समुदाय इत्यर्थः, तत्र च समुदायसमुदायिनोरभेदेन त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्ड - 10 शब्देनोच्यन्ते, तस्य विविधमने कैराधाकर्मादिपरिहारप्रकारैश्शुद्धिर्निर्दोषता पिण्डविशुद्धि:, तथा चात्र पिण्डशब्देन भावपिण्डोपष्टम्भकमचित्तद्रव्यरूपमाहारशय्यावस्त्रपात्ररूपवस्तुचतुष्टयं गृह्यते तस्मात्पिण्डविशुद्धेश्चतुर्विधत्वमित्याशयेनाह सर्वदोषरहितेत्यादि । तथाऽऽहारशय्यावस्त्रपात्राणां सर्वदोषरहितानां ग्रहणं पिण्डविशुद्धिरित्यर्थः, तत्र दोषाश्चाहारविषया षोडशोद्गमदोषाः षोडशोपार्जनादोषाः दशैषणादोषाः पञ्च संयोजनादोषा इत्येवं मिलितास्सप्तचत्वा - 15 रिंशदेषणाया दोषा एवोच्यन्ते, एतेषां विशोधनेन पिण्डस्य विशुद्धया चारित्रशुद्धिद्वारा मोक्षावाप्तिः । तत्रोद्गमदोषे आधाकर्म तावत् साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं पच्यते गृहादिकं वा सङ्गृह्यते वयते वा वस्त्रादिकं कारयति वा पात्रादिकममुकस्मै साधवे देयमिति, तादृशपाकादिक्रिया तद्योगाद्भक्ताद्यपि आधाकर्मोच्यते तच्चाधोगतिकारणम्, प्राणातिपाताद्याश्रवप्रवृत्तेः, तथा तत्प्रतिसेवनप्रतिश्रवणतद्भोक्त्रादिसंवासा अप्याधाकर्मात्मकाः 20 भवंति । औद्देशिकं तावत् - दुर्भिक्षापगमे वाचा साध्वादीनुद्दिश्य यद्भिक्षावितरणं तदुद्दिष्टौ - शिकं, यदुद्धरितमोदनादि व्यञ्जनादिना मिश्रयित्वा तस्य वितरणं तत्कृतौदेशिकं, यच्च तप्त्वा गुडादिना मोदक चूरीबन्धवितरणं तत्कमद्देशिकमिति । पूतीकर्म - पवित्रस्यापवित्रकरणं, यथा शुचिः प्रयोघटोऽपि मद्यबिन्दुनैकेनाशुचिः स्यात्तथा विशुद्धाहारोऽप्याधाकर्मादियोगात्पूतिकः स्यात् उद्गमादिदोषरहितं भक्तं सदपि तादृशं भुज्यमानं निरतिचारमपि चरणं पूर्ति करोतीत्ययं 25 दोषः । मिश्रजातं - गृहिसंयतोभयप्रणिधानेन पाकादिभावमुपगतं - सामान्यतो भिक्षाचरस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, पाखण्डिस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, केवलसाधु

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676