Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 604
________________ विश्वविशुद्धिः ] M : ५५३ त्पाटिता, अत्रान्तरे च कथमपि साधुरागच्छति भिक्षार्थं तस्मै च यदि करस्थं ददाति तदा करपरिवर्तनमात्रं जघन्यमभ्याहृतमाचीर्णम्, हस्तशतादभ्याहृतमुत्कृष्टम् । उद्भिन्नम् - साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्घाटनम् इदश्च पिहितोद्भिन्नमुच्यते, यत्तु पिहितं कपाटमुद्घाट्य साधुभ्यो दीयते तत्कपाटोद्भिन्नम्, मालापहृतम् - उच्चस्थानात्साध्वर्थमुत्तार्याऽऽहारादीनां दानम्, द्विविधं जघन्यमुत्कृष्टश्वेति तत्, भूविन्यस्ताभ्यां पादयोरप्रभागाभ्यां 5 फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविगलितोच सिक्ककादिस्थितं दात्र्या दृष्टेरगोचरं यद्दीयते तज्जघन्यं मालापहृतम् बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यद्दीयते तदुत्कृष्टमुभयमप्यकल्प्यम् । आच्छेद्यम् - आच्छिद्यापहृत्य यद्भक्तादिकं प्रभुः भृत्यादीनां कर्मकरादीनां सत्कं ददाति तत् । त्रिप्रकारं तत् प्रभ्वाश्रितं, स्वामिविषयं स्तेनकविषयञ्च । एतत्रिविधमप्याच्छेद्यं तीर्थकर गणधरैः निराकृतमतः श्रमणानां तद्ब्रहीतुं न कल्पते । अनिसृष्टम् - 10 यदा द्वित्राणां पुरुषाणां साधारणे आहार एकोऽन्याननापृच्छय साधवे ददाति तादृशमनिसृष्टम् - अननुज्ञातं तीर्थकरगणधरैरिति यावत्, अनुज्ञातं पुनः कल्पते सुविहितानाम् तच्चानिसृष्टमनेकधा मोदकविषयं चुल्लकविभोजन विषयम् विवाहादिविषयं दुग्धविषयं आपणादिविषयमित्यादि । अध्यवपूरकम् - अधि आधिक्येनावपूरणं स्वार्थदत्ताधिश्रयणादेस्साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एवाध्यवपूरकस्तद्योगाद्भक्ताद्यप्य- 15 ध्यवपूरकम्, तदपि स्वगृहयावदर्थिकमिश्रं स्वगृहसाधुमिश्रं स्वगृहपाषण्डमिश्रश्चेति स्पष्टस्वरूपं त्रिविधम् प्रथमतः पाकारम्भकाले स्वनिमित्तं पाके निष्पाद्यमानेऽत्रान्तर एव यथासम्भवमुपस्थितयावदर्थिजननिमित्तं पुनरवतार्य विशेषेण तण्डुलादीन् प्रक्षिप्य पचति सोs - ध्यवपूरक इत्युद्गमेदोषाः । धात्रीपिण्डः बालस्य क्षीरमज्जन मण्डनक्रीडनालङ्काराऽऽरोपणकर्मकारिण्यः पञ्च धात्र्यः, एतासां कर्मधात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः, रुदन्तं बाल - 20 कमुद्वीक्ष्य भिक्षार्थं प्रविष्टस्साधुः प्रथमं भिक्षां दत्त्वा स्तन्यं पायय, पश्चाद्वा भिक्षां देहि, नो . चेदमस्मै क्षीरं दास्याम्यन्यस्या वा स्तन्यं पाययामीत्यादिरूपेण वदन् यं पिण्डं लभते स धात्री - पिण्डः । परस्परसन्दिष्टार्थकथिका दूती सा द्विधा स्वग्रामे परप्रामे च यस्मिन् ग्रामे साधु तस्मिन्नेव प्रायदि सन्देश कथिका तर्हि स्वग्रामदूती, या तु परप्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, तन्निमित्तं पिण्डः दूतीपिण्डः । निमित्तपिण्डः - अतीतानागतवर्त्तमानकालेषु - 25 1 १. ज्ञानदर्शनशुद्धा विवोद्गमादिदोषपरिशुद्धाहारे गृहीते चारित्रशुद्धिर्भवति तथा च ज्ञानावरणादिकर्मणोऽपगमो भवति, तदपगमे आत्मनो यथावस्थितस्वरूपलाभात्मको मोक्षस्ततो मोक्षार्थिना चरणशुद्धधर्थं नियमेनोमादिदोषपरिशुद्ध आहारो प्राह्य इति ॥ ७०

Loading...

Page Navigation
1 ... 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676