________________
विश्वविशुद्धिः ]
M
: ५५३
त्पाटिता, अत्रान्तरे च कथमपि साधुरागच्छति भिक्षार्थं तस्मै च यदि करस्थं ददाति तदा करपरिवर्तनमात्रं जघन्यमभ्याहृतमाचीर्णम्, हस्तशतादभ्याहृतमुत्कृष्टम् । उद्भिन्नम् - साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितोद्घाटनम् इदश्च पिहितोद्भिन्नमुच्यते, यत्तु पिहितं कपाटमुद्घाट्य साधुभ्यो दीयते तत्कपाटोद्भिन्नम्, मालापहृतम् - उच्चस्थानात्साध्वर्थमुत्तार्याऽऽहारादीनां दानम्, द्विविधं जघन्यमुत्कृष्टश्वेति तत्, भूविन्यस्ताभ्यां पादयोरप्रभागाभ्यां 5 फलकसंज्ञाभ्यां पाणिभ्यां चोत्पाटिताभ्यामूर्ध्वविगलितोच सिक्ककादिस्थितं दात्र्या दृष्टेरगोचरं यद्दीयते तज्जघन्यं मालापहृतम् बृहन्निःश्रेण्यादिकमारुह्य प्रासादोपरितलादानीय यद्दीयते तदुत्कृष्टमुभयमप्यकल्प्यम् । आच्छेद्यम् - आच्छिद्यापहृत्य यद्भक्तादिकं प्रभुः भृत्यादीनां कर्मकरादीनां सत्कं ददाति तत् । त्रिप्रकारं तत् प्रभ्वाश्रितं, स्वामिविषयं स्तेनकविषयञ्च । एतत्रिविधमप्याच्छेद्यं तीर्थकर गणधरैः निराकृतमतः श्रमणानां तद्ब्रहीतुं न कल्पते । अनिसृष्टम् - 10 यदा द्वित्राणां पुरुषाणां साधारणे आहार एकोऽन्याननापृच्छय साधवे ददाति तादृशमनिसृष्टम् - अननुज्ञातं तीर्थकरगणधरैरिति यावत्, अनुज्ञातं पुनः कल्पते सुविहितानाम् तच्चानिसृष्टमनेकधा मोदकविषयं चुल्लकविभोजन विषयम् विवाहादिविषयं दुग्धविषयं आपणादिविषयमित्यादि । अध्यवपूरकम् - अधि आधिक्येनावपूरणं स्वार्थदत्ताधिश्रयणादेस्साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एवाध्यवपूरकस्तद्योगाद्भक्ताद्यप्य- 15 ध्यवपूरकम्, तदपि स्वगृहयावदर्थिकमिश्रं स्वगृहसाधुमिश्रं स्वगृहपाषण्डमिश्रश्चेति स्पष्टस्वरूपं त्रिविधम् प्रथमतः पाकारम्भकाले स्वनिमित्तं पाके निष्पाद्यमानेऽत्रान्तर एव यथासम्भवमुपस्थितयावदर्थिजननिमित्तं पुनरवतार्य विशेषेण तण्डुलादीन् प्रक्षिप्य पचति सोs - ध्यवपूरक इत्युद्गमेदोषाः । धात्रीपिण्डः बालस्य क्षीरमज्जन मण्डनक्रीडनालङ्काराऽऽरोपणकर्मकारिण्यः पञ्च धात्र्यः, एतासां कर्मधात्रीत्वं तेन लब्धः पिण्डो धात्रीपिण्डः, रुदन्तं बाल - 20 कमुद्वीक्ष्य भिक्षार्थं प्रविष्टस्साधुः प्रथमं भिक्षां दत्त्वा स्तन्यं पायय, पश्चाद्वा भिक्षां देहि, नो . चेदमस्मै क्षीरं दास्याम्यन्यस्या वा स्तन्यं पाययामीत्यादिरूपेण वदन् यं पिण्डं लभते स धात्री - पिण्डः । परस्परसन्दिष्टार्थकथिका दूती सा द्विधा स्वग्रामे परप्रामे च यस्मिन् ग्रामे साधु
तस्मिन्नेव प्रायदि सन्देश कथिका तर्हि स्वग्रामदूती, या तु परप्रामे गत्वा सन्देशं कथयति सा परग्रामदूती, तन्निमित्तं पिण्डः दूतीपिण्डः । निमित्तपिण्डः - अतीतानागतवर्त्तमानकालेषु - 25
1
१. ज्ञानदर्शनशुद्धा विवोद्गमादिदोषपरिशुद्धाहारे गृहीते चारित्रशुद्धिर्भवति तथा च ज्ञानावरणादिकर्मणोऽपगमो भवति, तदपगमे आत्मनो यथावस्थितस्वरूपलाभात्मको मोक्षस्ततो मोक्षार्थिना चरणशुद्धधर्थं नियमेनोमादिदोषपरिशुद्ध आहारो प्राह्य इति ॥
७०