________________
तस्वन्यायविभाकरे.
[द्वितीयकिरणे
स्वकुटुम्बनिमित्तं सम्मील्य पाचितश्च तद्भवति । स्थापना-साधुभ्यो देयमिदमिति चुल्लीस्थाल्यादौ स्वस्थाने सुस्थितछजकादौ परस्थाने चिरकालमल्पकालश्च घृतादीनां क्षीरादीनां स्थापनम् । प्राभृतिका-कालान्तरभाविनां विवाहादीनामन्तर एव साधुसमागमे
तेषामप्युपयोगो विवाहादिसम्भवमोदकादीनां भवत्विति बुद्ध्या इदानीमेव करणं 5 सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागमं विभाव्य तदानीमेव करणं तद्यो
गात्तादृशभक्तादिकमपि । प्रादुष्करणम्-वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिकाश्य द्रव्यधारणेन वा प्रकटकरणम् । तद्विधा प्रकटकरणं प्रकाशकरणश्चेति, अन्धकारादपसार्य बहिः प्रकाशे स्थापनं प्रकटकरणं, स्थानस्थितस्यैव भित्तिरन्ध्रकरणादिना प्रकटी
करणं प्रकाशकरणम् । रत्नेन पद्मरागादिना प्रदीपेन ज्योतिषा ज्वलता वैश्वानरेण तत्रैवं 10 प्रकाशना सुविहितानां न कल्पते, प्रकाशकरणेन प्रकटकरणेन च यद्दीयते भक्तादि
तत्संयमिनां न कल्पते, ज्योतिःप्रदीपाभ्यान्तु प्रकाशितमात्मार्थे कृतमपि न कल्पते, तेजस्कायदीप्तिसंस्पर्शादिति । क्रीतम्-साध्वादिनिमित्तं क्रयेण निष्पादितम् तदपि आत्मद्रव्यक्रीतमात्मभावक्रीतं परद्रव्यक्रीतं परभावक्रीतश्चेति चतुर्विधम् , स्वयमेवोज
यन्तभगवत्प्रतिमाशेषादिरूपेण द्रव्येण परमावयं यत्ततो भक्तादि गृह्यते तदात्म15 द्रव्यक्रीतम , यत्पुनरात्मना भक्ताद्यर्थं धर्मकथादिना परमावर्त्य भक्तकादि ततो गृह्यते
तदात्मभावक्रीतम् , तथा यत् परेण साधुनिमित्तं द्रव्येण क्रीतं तत्परद्रव्यक्रीतं यत्पुनः परेण साध्वर्थ निजविज्ञानप्रदानेन परमावर्ण्य ततो गृहीतं तत्परभावक्रीतम् । प्रामित्यं-साध्वर्थमन्नादि वस्त्रमुच्छिन्नमानीयते तत्प्रामित्यं, अपमित्य--भूयोऽपि तव दास्यामीत्येवमभिधाय
यत्साधुनिमित्तमुच्छिन्नं गृह्यते तत्तथा, तच्च लौकिकलोकोत्तरभेदतो द्विविधम् , साधुविषयं भगि20 न्यादिभिः क्रियमाणद्रव्यमाद्यम् , द्वितीयन्तु परस्परं साधूनामेव वस्त्रादिविषयम् । परिवर्तितम्
साधुनिमित्तं कृतपरावर्तरूपं तदपि लौकिकलोकोत्तरभेदाभ्यां द्विविधम्-कुथितं घृतं दत्त्वा साधुनिमित्तं सुगन्धिघृतग्रहणं,कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनग्रहणश्चाद्यम् ,द्वितीयञ्च यत्साधुस्साधुना सह वस्त्रादिपरिवर्तनकरणरूपम् । अभ्याहृतं-साधुदानाय स्वग्रामात्परग्रा
माद्वा समानीतम्-आचीर्णमनाचीर्णमिति तद्विविधम् , निशीथाभ्याहृतनोनिशीथाभ्याहृतभे25 देनानाचीर्णं द्विविधम् , यदर्धरात्रावानीतं प्रच्छन्नं साधूनामपि यदभ्याहृतमित्यविदितं तदाद्यं,
नोनिशीथाभ्याहृतं तु तद्विपरीतं यत्साधूनामभ्याहृतमिति विदितम्, देशे देशदेशे चाचीण, हस्तशतप्रमितक्षेत्रं देशः तावन्माने आचीर्ण उपयोगपूर्वकाणि यदि त्रीणि गृहाणि भवन्ति ततः कल्पते, हस्तशतमध्ये तु देशदेशः, एतन्मध्यवर्ति मध्यमम् । यदोोपविष्टा कथमपि स्वयोगेन मुष्टिगृहीतेन मण्डकादिना यदि वा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयो.