________________
करणम् ]
म्यायप्रकाशसमलङ्कृते अथ द्वितीयः किरणः ॥
मूलगुणसद्भाव एव मोक्षार्थिभिस्साधुभिर्यनिष्पाद्यते तत्करणं सप्ततिविधमित्याह - पिण्डविशुद्धिसमितिभावनाप्रतिमेन्द्रियनिरोधप्रतिलेखनागुप्यभिग्रहभेदेनाष्टविधमपि करणमवान्तरभेदात्सप्ततिविधम् ॥
पिण्डविशुद्धीति । सप्ततिविधमिदमुत्तरगुणरूपं बोध्यम् ॥
अथैतान् सप्रभेदान् व्याख्यातुकामः प्रथमं पिण्डविशुद्धिमाह -
सर्वदोषरहिताऽऽहारोपाश्रयवस्त्रपात्रपरिग्रहात्मिकाश्चतस्रः पिण्ड
: ५५१ :
"
5
विशुद्धयः ॥
सर्वेति । पिण्डनं पिण्डः, बहूनां सजातीयानां विजातीयानां कठिनद्रव्याणां एकत्र समुदाय इत्यर्थः, तत्र च समुदायसमुदायिनोरभेदेन त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्ड - 10 शब्देनोच्यन्ते, तस्य विविधमने कैराधाकर्मादिपरिहारप्रकारैश्शुद्धिर्निर्दोषता पिण्डविशुद्धि:, तथा चात्र पिण्डशब्देन भावपिण्डोपष्टम्भकमचित्तद्रव्यरूपमाहारशय्यावस्त्रपात्ररूपवस्तुचतुष्टयं गृह्यते तस्मात्पिण्डविशुद्धेश्चतुर्विधत्वमित्याशयेनाह सर्वदोषरहितेत्यादि । तथाऽऽहारशय्यावस्त्रपात्राणां सर्वदोषरहितानां ग्रहणं पिण्डविशुद्धिरित्यर्थः, तत्र दोषाश्चाहारविषया षोडशोद्गमदोषाः षोडशोपार्जनादोषाः दशैषणादोषाः पञ्च संयोजनादोषा इत्येवं मिलितास्सप्तचत्वा - 15 रिंशदेषणाया दोषा एवोच्यन्ते, एतेषां विशोधनेन पिण्डस्य विशुद्धया चारित्रशुद्धिद्वारा मोक्षावाप्तिः । तत्रोद्गमदोषे आधाकर्म तावत् साधुप्रणिधानेन यत्सचेतनमचेतनं क्रियते अचेतनं पच्यते गृहादिकं वा सङ्गृह्यते वयते वा वस्त्रादिकं कारयति वा पात्रादिकममुकस्मै साधवे देयमिति, तादृशपाकादिक्रिया तद्योगाद्भक्ताद्यपि आधाकर्मोच्यते तच्चाधोगतिकारणम्, प्राणातिपाताद्याश्रवप्रवृत्तेः, तथा तत्प्रतिसेवनप्रतिश्रवणतद्भोक्त्रादिसंवासा अप्याधाकर्मात्मकाः 20 भवंति । औद्देशिकं तावत् - दुर्भिक्षापगमे वाचा साध्वादीनुद्दिश्य यद्भिक्षावितरणं तदुद्दिष्टौ - शिकं, यदुद्धरितमोदनादि व्यञ्जनादिना मिश्रयित्वा तस्य वितरणं तत्कृतौदेशिकं, यच्च तप्त्वा गुडादिना मोदक चूरीबन्धवितरणं तत्कमद्देशिकमिति । पूतीकर्म - पवित्रस्यापवित्रकरणं, यथा शुचिः प्रयोघटोऽपि मद्यबिन्दुनैकेनाशुचिः स्यात्तथा विशुद्धाहारोऽप्याधाकर्मादियोगात्पूतिकः स्यात् उद्गमादिदोषरहितं भक्तं सदपि तादृशं भुज्यमानं निरतिचारमपि चरणं पूर्ति करोतीत्ययं 25 दोषः । मिश्रजातं - गृहिसंयतोभयप्रणिधानेन पाकादिभावमुपगतं - सामान्यतो भिक्षाचरस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, पाखण्डिस्वकुटुम्बनिमित्तं मिलित्वा पाचितं, केवलसाधु