________________
: १५० :
5
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे
विर्भूततत्त्वश्रद्धानरूप आत्मपरिणामविशेषो दर्शनमित्यर्थः । तव सकलपर्यायोपेतसकलवस्तुस्वरूपम् तस्य सर्वविदुपदिष्टतया पारमार्थिकस्य जीवादेः पदार्थस्यैतदेवमेवेति प्रत्ययविशेषः श्रद्धानं, तत्त्वेन वा भावतोऽर्थानां श्रद्धानं तत्त्वश्रद्धानमिति भावः । चरणमाह - पापेति, स्पष्टम् ॥
अथ तपोनिरूपणायाह
10
बाह्याभ्यन्तरभेदेन द्वादशविधानि तपांसि पूर्वमेवोक्तानि ॥ बाह्येति । पूर्वमेवेति, निर्जरानिरूपण इत्यर्थः ॥
क्रोधनिग्रहमाचष्टे -
उदीर्णक्रोधादिचतुष्टयनिग्रहः क्रोधनिग्रहः । इति चरणनिरूपणम् ॥
उदीर्णेति । क्रोधादिमोहनीय कर्मविपाकादुदयमागतेत्यर्थः, आदिना मानमाया लोभानां ग्रहणम् तेषां निग्रहस्तितिक्षा, क्रोधनिग्रहेण हि जीवः क्षान्ति जनयति, क्रोधवेदनीयं कर्म पुनर्न बध्नाति, पूर्वबद्धञ्च कर्म निर्जरयति ततश्च जीवविशिष्टवीर्योल्लासो भवति, एवं मानादावपि भाव्यम् । तदेवं व्रतपञ्चकस्य श्रमणधर्मदशकस्य संयमसप्तदशकस्य वैयावृत्त्यदशकस्य ब्रह्मचर्यगुप्तिनवस्य ज्ञानादित्रिकस्य तपोद्वादशकस्य क्रोधनिप्रहचतुष्टयस्य च मेलनेन 15 सम्भूतं सप्ततिविधं चरणं निरूपितमित्याह इतीति ॥
इति तपोगच्छनभोमणिश्रीमद्विजयानन्द सूरीश्वर पट्टधर- श्रीमद्विजय कमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशटीकायां चरणनिरूपणनामा प्रथमः किरणः ॥
यद्यपि गणधराः प्रथमं पूर्वाण्येवोपनिबध्नन्ति तथापि दुर्मेधसां तदवधारणाद्ययोग्यानां स्त्रीणाञ्चानुग्रहार्थ शेषश्रुतस्य विरचना विज्ञेया ॥
१ क्रोधमानमायालोभानां चतुर्णां विजयो यस्मात्तपसः तचैकाशनं निर्विकृतिकमाचाम्लमुपवासमित्येका लता, प्रतिकषायमेकैका लता क्रियते एतत्कषायविजयं तपः, अस्मिंश्च तपसि चतस्रो लताः षोडशदिवसानि भवन्ति ॥