________________
तत्पन्यायविमाकरे
[तीयविरल लाभादिकथनं भिक्षार्थ कुर्वतोत्पादनादोषसंपर्केण गृहीतपिण्डः, लाभालाभसुखदुःखजीवितमरणरूपविषयभेदात्स षड्विधः । आजीवनपिण्डः-जातिकुलगणकर्मशिल्परूपाजीवनेनोत्पादिताऽऽहारशय्यादिकम् , मातृसमुत्था जातिर्ब्राह्मणादिवा, पितृसमुत्थं कुलमुग्रादि वा,
गणो मल्लादिवृन्दं, कर्म कृष्यादि, शिल्पं तृणादितूण्डनसीवनप्रभृति, जात्या जीवनं पृष्टो 5 ऽपृष्टो वाऽऽहारार्थ स्वजाति प्रकटयति यथाऽहं- ब्राह्मण इत्यादि तदा स जात्या जीवनपिण्डः एवमन्येष्वपि भावनीयम् । वनीपक:-दायकाभिमतेषु श्रमणादिध्वात्मानं भक्तं दर्शवित्वा याचनया लब्धः पिण्डः । भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुराहारादिलुब्धतया तत्तद्भक्तगृहिणः पुरतश्शाक्यादिभक्तमात्मानं दर्शयति, निर्म
न्थशाक्यतापसगेरुकाऽऽजीवकरूपेण पञ्चधा श्रमणाः । चिकित्सापिण्ड:-वमनविरेचन10 बस्तिकर्मादि कारयतो भैषज्यादि सूचयतो वा भिक्षार्थे यः पिण्डः स चिकित्सापिण्डः,
सूक्ष्मः औषधविधिवैद्यज्ञापनेन, बादरः स्वयं चिकित्साकरणेन । अन्यस्मात्कारणाच भिक्षार्थ गृहे प्रविष्टेन साधुना निजव्याधिप्रतीकारोपाये पृष्टे ममाप्येकदैवं सञ्जातोऽमुकेनौषधेन घोपशमं गत इत्येवं वदता रोगिणो भैषज्यकरणाभिप्रायोत्पादनादौषधसूचनं कृतं भवतीति
सूक्ष्मो बादरः प्रसिद्ध एव । क्रोधपिण्डः-विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफल 15 दर्शनं वा भिक्षार्थ कुर्वतोऽयं दोषः। मानपिण्ड:-साधूनां समक्षं पणं कृत्वा तदाऽहं लब्धिमान
यदा भवतां सरसमाहारममुकगृहादानीय ददामीत्युक्त्वा गृहस्थं विडम्ब्य गृह्णाति तदाऽयं दोषः । मायापिंड:-वेषपरावर्त्तादिना मायया प्रतारणेन दापयत्यात्मने भक्तादिदानाय च परं प्रयोजयति यदा तदाऽयं दोषः । लोभपिण्ड:-अद्याहममुकं सिंहकेसरादिकं ग्रहीष्यामीति
बुद्ध्याऽन्यद्वल्लचनकादिकं लभ्यमानमपि यन्न गृह्णाति किन्तु तदेवेप्सितं स लोभपिण्डः । 20 अथवा पूर्व तथाविधबुद्ध्यभावेऽपि यथाभावं लभ्यमानं प्रचुरं लपनकश्रीप्रभृतिकं भद्रकर.
समिति कृत्वा यद्गृह्णाति स लोभपिण्डः । संस्तवपिण्ड:-पूर्व जननीजनकादिद्वारेण पश्चाच्च श्वश्रश्वशुरादिद्वारेणात्मपरिचयानुरूपं सम्बन्ध भिक्षार्थं घटयता ग्राह्यः पिण्डः, सम्बन्धिसंस्तवो वचनसंस्तवश्चेति स द्विविधः मातृश्वश्वादिरूपतया संस्तवस्सम्बन्धिसंस्तवः । श्लाघारूपतया संस्तवो वचनसंस्तवस्तथाकरणेन लब्धः पिण्डो दूषितः । विद्या25 पिण्ड:-यया विद्यया सुरं साधयित्वाऽऽहारं गृह्णाति तदा विद्यापिण्डः, अथवा विद्यां पाठ
यित्वा भोजनादिकं गृहस्थाद्हाति तदा विद्यापिण्डः । मन्त्रपिण्डः-मंत्रेणावाप्तः पिण्डः, पादलिप्तसूरयो मुरुण्डराजानं प्रति मंत्रं प्रयुक्तवन्तः परं तत्र न कोऽपि दोषस्तेषां तं प्रत्युपकारित्वादेवं संघादिप्रयोजनेन मंत्रे प्रयुज्यमाने न दोषः किन्तु केवलं भिक्षार्थमेव मंत्रप्रयोगे क्रियमाणे दोषः । चूर्गपिण्ड:-वशीकरणाद्यर्थं अञ्जनादिचूर्णप्रयोगादवाप्तः पिण्डो दुष्टः ।