Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala
View full book text
________________
शानादि] न्यायप्रकाशसमलङ्कृते
:५४९; . मानाधिकेति । पुरुषस्य कवलपरिमाणं द्वात्रिंशत्कवलाः स्त्रियाः पुनरष्टाविंशतिः, ततोऽप्यधिकतया पानभोजनादिसंसेवनं ब्रह्मक्षतिकारित्वाच्छरीरपीडाकरत्वाचावश्यं त्याज्यं, केवलं संयमनिर्वाहार्थ चित्तस्वास्थ्योपेतो भुञ्जीत न तु रागद्वेषवशगः सर्वकालमतिमात्राहारस्य दुष्टत्वात् , कदाचित्तु कारणतोऽतिमात्राहारो न दुष्ट इति । भूषणगुप्तिमाह स्नानेति, शरीरोपकरणादीनां विभूषार्थं युवतिजनमनस्तोषार्थ संस्कारो न विधेयः, अन्यथा स्त्रीजना- 5 भिलषणीयत्वात्तस्य ब्रह्मचर्ये शंका स्यात् , उज्ज्वलवेषपुरुषदर्शनेन युवतीनां कामोद्रेकात् , किमेतास्तावदित्थं प्रार्थयमाना उपभुञ्जे, आयतौ तु यद्भावि तद्भवतु उतश्वित् कष्टानि शाल्मलीश्लेषादयो नरक एतद्विपाका इति परिहरामि वेत्येवं रूपो वितर्कः स्यात्तस्माद्भिक्षुर्धर्मारामो धृतिमान् दान्तश्शङ्कास्थानभूतानेतान् आज्ञाऽनवस्थामिथ्यात्वविराधनादोपान्विचिन्तयन् ब्रह्मचर्ये समाहितो भवेत् , तथाविधश्च तं देवदानवगन्धर्वयक्षरक्षःकिन्न- 10 रादयोऽपि नमस्यन्ति, अयञ्चाष्टादशविधो ब्रह्मचर्यधर्मः परप्रवादिभिरप्रकम्प्यतया ध्रुवः, अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्नित्यो द्रव्यार्थतया, शश्वदन्यान्यरूपतयोत्पादात्पर्यायार्थतयापि शाश्वतः जिनैः प्रतिपादितः, अनेन ब्रह्मचर्येण पुरा अनन्तासूत्सर्पिण्यवसर्पिणीषु महाविदेहे तत्कालापेक्षया इहापि वा सिद्धाः सिद्ध्यन्ति अनागताद्धायाश्च सेत्स्यन्तीति सर्वोत्तमोऽयमिति ॥
..15 अथ ज्ञानादि निरूपयति--
ज्ञानदर्शनचरणभेदतो ज्ञानादि त्रिविधम् । कर्मक्षयोपशमसमुत्थावबोधतधेतु द्वादशाङ्गाद्यन्यतरत् ज्ञानम् । तत्त्वश्रद्धानं दर्शनम् । पापव्यापारेभ्यो ज्ञानश्रद्धानपूर्वकविरतिश्चरणम् ।।
ज्ञानेति । स्पष्टम् , तत्र ज्ञानमाह कर्मेति, तत्तज्ज्ञानावरणभूतकर्मेत्यर्थः, तथा च तत्त- 20 ज्ज्ञानावरणक्षयोपशमरूपोपाधिसम्पादितसत्ताक आभिनिबोधिकरूपप्रकाशविशेषः, तन्निदानभूतं द्वादशाङ्गरूपं श्रुतञ्च ज्ञानमित्यर्थः। दर्शनमाह तत्त्वेति, दर्शनमोहनीयक्षयाद्या
१. 'दिव्यात्कामरतिसुखात्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पमि' त्यष्टादशविधं ब्रह्मचर्यम् तदेतत्सर्वस्त्रीणां मनोवाकायस्सर्वथा संगत्यागस्सर्वतो ब्रह्मचर्यम् . संयमिनां, एष्वेव देशतस्स्वदारसंतोषरूपं देशतो देशविरतानाम् । व्रतेषु प्रधानं, उक्तञ्च व्रतानां बह्मचर्य हि निर्दिष्टं गुरुकं व्रतं । तज्जन्यपुण्यसम्भारसंयोगाद्गुरुरुच्यते इति । तीर्थान्तरीयैरप्युक्तं, 'एकतश्चतुरो वेदा ब्रह्मचर्यञ्च एकतः । एकतस्सर्वपापानि, मद्यं मांसञ्च एकतः' इति ॥ २. तथापुरुषस्य द्वादशाङ्गानि तद्वच्छूतात्मकपरमपुरुषस्यापि द्वादशाङ्गानि, तानि च 'आयारो सुयगडो ठाणं, समवाओ विवाहपन्नत्ती नायाधम्मकहाओ उवासगदसाओ अंतगडदसाओ अनुत्तरोववाइयदसाओ पण्हावागरणाई विवागसुयं दिट्ठिवाओ य' इति ।

Page Navigation
1 ... 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676