Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 596
________________ वैयावृत्यमैदाः ] म्यायंप्रकाशसमलङ्कृते : ५४५ : ग्लाने समुत्पन्ने मायाविप्रमुक्तेन यत्र कुत्रापि स्थितेन त्वरितमागन्तव्यमेवं कुर्वता साधर्मि - कवात्सल्यं कृतं भवति, आत्मा च निर्जराद्वारे नियोजितो भवति, तत्राशक्तत्वमप्रशस्यभाषाऽपमानं लुब्धत्वमुद्भाव्य प्रतिबन्धयतः प्रायश्चित्तं स्यादिति ॥ गणं कुलचाह— श्रुतस्थविरपरम्परानुयायी गणः । एकजातीयानेकगच्छसमूहः कुलम्।। 5 श्रुति । श्रुतेनागमेन स्थविरो वृद्धः श्रुतस्थविरस्तृतीयचतुर्थाङ्गधरस्साधुस्तत्परंपरानुगमनशीलो गण इत्यर्थः, श्रुतेति विशेषणेन वयसा पर्यायेण वा वृद्धस्य न ग्रहणम् । वयस्थविरसप्तत्यादिवर्षजीवितः, पर्यायस्थविरः यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि गतानि सः, पदेन स्थविरस्तु प्रवर्तितव्यापारान् संयमयोगेषु सीदतस्साधून ज्ञानादिष्वैहिकाऽऽमुष्मिकापायदर्शनतः स्थिरीकर्त्ता, कुलसमुदायो वा गणो भाव्यो यथा कौटिकादिः, कुलमाह एक- 10 जातीयेति, बहूनां गच्छानामेकजातीयानां समूहः कुलमित्यर्थो यथा चान्द्रादि । गच्छ विहितमुनिवृन्दरूप एकाचार्यप्रणीतो जघन्यतस्त्रिपुरुषप्रमाणः साधुसमुदायरूपत्वात् चतु:पञ्चप्रभृतिपुरुषसंख्याका मध्यमा गच्छाः, द्वात्रिंशत्सहस्राण्येकस्मिन् गच्छे साधूनामुत्कृष्टा संख्या यथा श्री ऋषभस्वामिप्रथमगणधरस्य भगवतो ऋषभसेनस्य । अशुभ फलप्रदत्वादसदाचारगच्छसंवासपरिहारपूर्वकं परमशुभफलदत्वादिहपरलोकहितार्थं सदाचारगच्छसंवासः 15 कार्यः । तत्र वसतां हि महती निर्जरा भवति, सारणावारणाचोदनादिभिर्दोषावाप्तेरभावात् विस्मृते क्वचित्कर्तव्ये भवतेदं न कृतमिति सारणा, अकर्त्तव्यानां निषेधो वारणा, संयमयोगेषु स्खलितस्याऽयुक्तमेतद्भवादृशामित्यादिस्वरमधुरवचनैः प्रेरणं चोदना । षड्डिधानां जीवानां बाधा मरणान्तेऽपि यत्र करणत्रयैर्न क्रियते मुनिभिस्स गच्छ इति ॥ अथ संघमाह - ज्ञानदर्शन चरणगुणवान् श्रमणादिः सङ्घः ॥ ज्ञानदर्शनेति । गुणरत्नपात्रभूतसत्त्वसमूहः सङ्घः कोऽयं समूहः तादृश इत्यत्राह श्रमणादिरिति, आदिना श्रमणी श्रावक श्राविकानां ग्रहणम् । श्राम्यन्ति तपस्यन्तीति श्रमणाः । शृण्वन्ति जिनवचनमिति श्रीवकाः । तीर्थङ्करवन्दनीयं सङ्घ ज्ञानादिगुणरूपं न तिरस्कुर्यात् सङ्घाद्बहिष्करणभयेन श्रुतकेवलिनापि सङ्घो मानितः तस्मात्सङ्घः पूज्य इति ।। १ श्रावकत्वं न श्रवणमात्रनिबन्धनं तथा च सति श्रोत्रेन्द्रियलब्धिमतां सर्वेषां श्रावकत्वं स्यादित्यत्रो कं जिनवचनमिति, जिनवचनमाप्तागमो न पुनरनाप्तागमः तस्याप्रमाणत्वेन परलोकहितत्वासम्भवाच्छ्रवणवैयर्थ्यापत्तेः, ६९ 20 25

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676