Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 573
________________ : ५२२: तस्वन्यायविभाकरे [ प्रथमकिरणे स्वेन शास्त्रार्थपर्याप्तेश्वरणनिरूपणं निष्फलमित्यपास्तम् । ज्ञानमेव नेप्सितार्थप्रापकं, सकियाविरहात् ; स्वदेशप्राप्त्यभिलषितगमनक्रियाशून्यमार्गज्ञानवदित्यनुमानेनासाधकत्वाचेति ॥ अथ चरणभेदमाह-- व्रतश्रमणधर्मसंयमवैयावृत्त्यब्रह्मचर्यगुप्तिज्ञानादितपःक्रोधनिग्रहरूपे5 णाष्टविधमप्यवान्तरभेदतस्सप्ततिविधं चरणम् ॥ तेति । प्राणातिपातविरमणादि व्रतं पञ्चविधम् , श्रमणधर्मस्साधुधर्मः क्षान्त्यादिदशविधः, संयम उपरमस्सप्तदशविधः, वैयावृत्त्यमाचार्याधुद्देशेन यत्कर्त्तव्यं तत्र व्यग्रतारूपं देशविधम् , ब्रह्मचर्यस्य गुप्तयो वसत्यादिका नव, ज्ञानमाभिनिबोधिकादि तदादि येषां तानि ज्ञानादीनि ज्ञानदर्शनचारित्ररूपाणि त्रीणि, तपो द्वादशविधम् , क्रोधनिग्रहः क्रोधादीनां 10 निग्रहश्चतुर्विध इति मूलतोऽष्टविधमपि स्वस्वावान्तरभेदविवक्षया सप्ततिविधं चरणमित्यर्थः । ननु गुप्तीनां व्रतेषु श्रमणधर्मान्तर्गतचारित्रस्य व्रतात्मकत्वेन व्रतेषु संयमतपसोः श्रमणधर्मेषु तपोग्रहणे तत्र वैयावृत्त्यस्य क्षान्त्यादिश्रमणधर्मग्रहणे तत्र क्रोधादिनिग्रहस्य चान्तर्गतत्वेन तेषां पृथग्ग्रहणं व्यर्थमिति चेदुच्यते, गुप्तेर्निरपवादत्वप्रदर्शनाय पूर्वपश्चिमतीर्थकरतीर्थयोर्वि शेषेणैतद्भवति महाव्रतमिति प्रकाशनाय, व्रतचारित्रस्यैकांशत्वेन छेदोपस्थापनीयादिचतुर्विध15 चारित्रग्रहणाय अपूर्वकर्माश्रवसंवरहेतुभूतसंयमस्य पूर्वगृहीतकर्मक्षयहेतुभूततपसश्च ब्राह्मणा आयाता वसिष्ठोऽप्यायात इति न्यायेन मोक्षाङ्गं प्रति प्राधान्यख्यापनाय वैयावृत्त्यस्य स्वपरोपकारकत्वेनानशनादिभ्योऽतिशयतासूचनाय उदयोदीरणावलिकागतत्वेन क्रोधादीनां क्षान्त्यादिभिरुदय एव न कर्त्तव्य इति ख्यापयितुं क्षान्त्यादयो ग्राह्याः क्रोधादयो हेया इति वोपदर्शनाय तदुपन्यास इति न कोऽपि दोष इति भावः ॥ १. इदमित्थमासेवनीयं नत्वित्थमिति ज्ञानादेवावगम्यतेऽतो ज्ञानमेव प्रमाणं न तु बाह्यं कारणं पिण्डविशुद्धयादि चारित्रं वा, तज्ज्ञानाभावे तस्याप्यभावात् , सति च तस्मिन् चरणस्यापि भावात् , ज्ञान एव च तीर्थस्य स्थितत्वात् , दर्शनस्यापि अधिगमजन्यस्य जीवादिपदार्थपरिच्छेदतस्सिद्धर्जातिस्मरणजन्यनैसर्गिकस्याप्यागमरहितत्वाभावात् । यतस्स्वयम्भूरमणमत्स्यादीनामपि जिनप्रतिमाद्याकारमत्स्यदर्शनाजातिमनुस्मृत्य भूतार्थालोकनपराणामेव नैसर्गिकसम्यक्त्वमुपजायते, भूतार्थालोकनञ्च ज्ञानमिति ज्ञानं प्रधानमिति ज्ञाननयः । क्रियानयस्तु क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं युक्तियुक्तत्वात् , ज्ञानन्तु क्रियोपकरणत्वाद्गौणम् , प्रयत्नादिक्रियाविरहेण हि ज्ञानवतोऽप्यभिलषितार्थसम्प्राप्तिन दृश्यते, आगमेऽपि च तीर्थकरगणधरैः क्रियाविकलानां ज्ञानं निष्फलमेवोक्तम् , ज्ञानेनार्थक्रियासमर्थार्थप्रदर्शनेऽपि प्रेक्षापूर्वकारी प्रमाता यदि हानोपादानरूपां प्रवृत्तिं न कुर्यात्तदा तद्विफलमेव, तदर्थत्वात्तस्य । संविदा विषयव्यवस्थानस्याप्यर्थक्रियात्वात्क्रियैव प्रधानम् । म केवलमेवं क्षायोपशमिकी चरणक्रियामङ्गीकृत्यैव प्राधान्यं तस्याः, किन्तु क्षायिकीमप्याश्रित्य, एतदपे. क्षयाऽपि तस्याः प्राधान्यं भगवतोऽपि समुत्पन्न केवलज्ञानस्य यावच्छैलेश्यवस्थायां सर्वसंवररूपचारित्रक्रिया न भवति तावन्मुक्त्यनवाप्तः, यद्यत्समनन्तरभावि तत्तत्कारणमिति व्याप्तः क्रियैव कारणमिति ॥

Loading...

Page Navigation
1 ... 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676