Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 575
________________ : ५२४ : तत्स्वन्यायविभाकरे [ प्रथमकिरणे बहिर्भवननिदानानन्यसाधारणवीतरागप्रणीतधर्मचिन्तामणिं यजन्यपरिणामविशेषान्न पश्यति पश्यन् वा नाचरति जीवः स प्रमादो मद्यादयः, अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादरभेदेनाष्टविधो वा, तत्सहकारेण तन्निमित्तकात्मपरिणामविशेषेण वा कायमनोवाग्व्यापारेण जन्यं यद्रव्यात्मकानां भावात्मकानामुभयात्मकानां वा पश्चेन्द्रियादि5 प्राणानां व्यपरोपणं वियोगीकरणं जीवात्पृथक्करणं सा हिंसेत्यर्थः, तस्माद्यपरोपणान्निवृत्तिविरतिः प्रथमं महाव्रतम् , सा देशतोऽपि स्यादित्यत्राह सम्यगिति, सर्वप्रकारेण भङ्गत्रयेण तादृशी निवृत्तिानश्रद्धानमन्तरेण न सम्भवतीति सूचनाय मिथ्यादृशां तथाविरतेरज्ञानाश्रद्धानपूर्वकत्वसूचनाय च ज्ञानश्रद्धानपूर्विकेत्युक्तम् । यतो हि मिथ्यादृशां सम्यक्त्वाभावेन ज्ञानं श्रद्धा च वस्तुतोऽज्ञानरूपमश्रद्धारूपा चेति भावः । इत्वरकालतादृशविरतिवारणाय 10 सम्यगित्यनेन यावज्जीवमपि विवक्षणीयम् । तथा च हिंसाया ज्ञानश्रद्धानपूर्वकं भङ्ग त्रयेण यावज्जीवं निवृत्तिरिति भावार्थः । एकद्वित्रिचतुःपञ्चेन्द्रियाख्यान् प्राणिनः सम्यक् शास्त्रतो ज्ञात्वा तदनुसारेण च श्रद्धयोपरमः सर्वेषु व्रतेषु प्रधानत्वात्सूत्रक्रमप्रामाण्याच्च प्रथमं व्रतमिति यावत् । भङ्गात्रयं च द्रव्यभावतदुभयरूपम् ॥ अथ तत्परिपालनार्थानि ब्रतानीतराण्याह15 अतद्वति तत्प्रकारकमप्रियमपथ्यं वचनमनृतं तस्मात्तथा विरतिढेि तीयं व्रतम् । असत्यं चतुर्विधं भूतनिहवाभूतोद्भावनार्थान्तरगर्हाभेदात्। आद्यमात्मा पुण्यं पापं वा नास्तीत्यादिकम् । आत्मा सर्वगत इति द्वितीयम् । गव्यश्वत्ववचनं तृतीयम् । क्षेत्रं कृष, काणं प्रति काण इत्यादि वचनं तुर्यम् ॥ १. पीडाकर्तृत्वयोगेन शरीरविनाशापेक्षया प्राणिनमेनं मारयामीत्येवंरूपसंक्लेशात्प्राणव्यपरोपणं हिंसा इयं सनिमित्ता, परिणामवादे हि पीडकस्य पीडनीयस्य परिणामित्वात्पीडाकर्तृत्वमुपपद्यते, एकान्तवादे त्वेकान्ततो निस्यत्वे कस्यापि कार्यस्य करणेऽक्षमत्वात् सर्वथा भेदे च शरीरकृतकर्मणो भवान्तरेऽनुभवानुपपत्तेः । सर्वथाऽनित्यत्वेऽभेदे च परलोकहान्यापत्तेः शरीरनाशे जीवनाशात् हिंसादीनामसम्भव एव । नित्यानित्ये चात्मनि सर्व घटत एव, मूर्त्तामूर्तत्वाभ्याश्च देहात्मनोः कथञ्चिद्भेदः देहस्पर्शने च जीवस्य वेदनोत्पत्तेः कथञ्चिदभेदश्च, न च नाशहेतुना देहाद्भिन्ने नाशे क्रियमाणे देहतादवस्थ्यं, अभिन्ने च क्रियमाणे देह एव कृतः स्यादिति वाच्यम् , अमिन्ननाशकरणे देहस्य नाशितत्वेन कृतत्वाभावात् । न च स्वकृतकर्मवशाद्धिंसाया भावे हिंसकस्याहिंसकत्वं वैयावृत्त्यकरस्येव कर्मनिर्जराहेतुत्वेन गुणत्वमेव स्यात्, कर्माभावे च निर्विशेषात्सर्व हिंसनीयं भवेदिति वाच्यम् कर्मोदयस्य प्राधान्येन हेतुत्वेऽपि हिंसकस्यापि तत्र निमित्तत्वात् । न च तत्र तस्य निमित्तत्वे वैद्यादीनामपि हिंसाप्रसङ्ग इति वाच्यम् , दुष्टाभिसन्धित्वस्यापि निमित्तत्वादिति ॥

Loading...

Page Navigation
1 ... 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676