________________
: ५२४ : तत्स्वन्यायविभाकरे
[ प्रथमकिरणे बहिर्भवननिदानानन्यसाधारणवीतरागप्रणीतधर्मचिन्तामणिं यजन्यपरिणामविशेषान्न पश्यति पश्यन् वा नाचरति जीवः स प्रमादो मद्यादयः, अज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादरभेदेनाष्टविधो वा, तत्सहकारेण तन्निमित्तकात्मपरिणामविशेषेण वा कायमनोवाग्व्यापारेण जन्यं यद्रव्यात्मकानां भावात्मकानामुभयात्मकानां वा पश्चेन्द्रियादि5 प्राणानां व्यपरोपणं वियोगीकरणं जीवात्पृथक्करणं सा हिंसेत्यर्थः, तस्माद्यपरोपणान्निवृत्तिविरतिः प्रथमं महाव्रतम् , सा देशतोऽपि स्यादित्यत्राह सम्यगिति, सर्वप्रकारेण भङ्गत्रयेण तादृशी निवृत्तिानश्रद्धानमन्तरेण न सम्भवतीति सूचनाय मिथ्यादृशां तथाविरतेरज्ञानाश्रद्धानपूर्वकत्वसूचनाय च ज्ञानश्रद्धानपूर्विकेत्युक्तम् । यतो हि मिथ्यादृशां सम्यक्त्वाभावेन
ज्ञानं श्रद्धा च वस्तुतोऽज्ञानरूपमश्रद्धारूपा चेति भावः । इत्वरकालतादृशविरतिवारणाय 10 सम्यगित्यनेन यावज्जीवमपि विवक्षणीयम् । तथा च हिंसाया ज्ञानश्रद्धानपूर्वकं भङ्ग
त्रयेण यावज्जीवं निवृत्तिरिति भावार्थः । एकद्वित्रिचतुःपञ्चेन्द्रियाख्यान् प्राणिनः सम्यक् शास्त्रतो ज्ञात्वा तदनुसारेण च श्रद्धयोपरमः सर्वेषु व्रतेषु प्रधानत्वात्सूत्रक्रमप्रामाण्याच्च प्रथमं व्रतमिति यावत् । भङ्गात्रयं च द्रव्यभावतदुभयरूपम् ॥
अथ तत्परिपालनार्थानि ब्रतानीतराण्याह15 अतद्वति तत्प्रकारकमप्रियमपथ्यं वचनमनृतं तस्मात्तथा विरतिढेि
तीयं व्रतम् । असत्यं चतुर्विधं भूतनिहवाभूतोद्भावनार्थान्तरगर्हाभेदात्। आद्यमात्मा पुण्यं पापं वा नास्तीत्यादिकम् । आत्मा सर्वगत इति द्वितीयम् । गव्यश्वत्ववचनं तृतीयम् । क्षेत्रं कृष, काणं प्रति काण इत्यादि वचनं तुर्यम् ॥
१. पीडाकर्तृत्वयोगेन शरीरविनाशापेक्षया प्राणिनमेनं मारयामीत्येवंरूपसंक्लेशात्प्राणव्यपरोपणं हिंसा इयं सनिमित्ता, परिणामवादे हि पीडकस्य पीडनीयस्य परिणामित्वात्पीडाकर्तृत्वमुपपद्यते, एकान्तवादे त्वेकान्ततो निस्यत्वे कस्यापि कार्यस्य करणेऽक्षमत्वात् सर्वथा भेदे च शरीरकृतकर्मणो भवान्तरेऽनुभवानुपपत्तेः । सर्वथाऽनित्यत्वेऽभेदे च परलोकहान्यापत्तेः शरीरनाशे जीवनाशात् हिंसादीनामसम्भव एव । नित्यानित्ये चात्मनि सर्व घटत एव, मूर्त्तामूर्तत्वाभ्याश्च देहात्मनोः कथञ्चिद्भेदः देहस्पर्शने च जीवस्य वेदनोत्पत्तेः कथञ्चिदभेदश्च, न च नाशहेतुना देहाद्भिन्ने नाशे क्रियमाणे देहतादवस्थ्यं, अभिन्ने च क्रियमाणे देह एव कृतः स्यादिति वाच्यम् , अमिन्ननाशकरणे देहस्य नाशितत्वेन कृतत्वाभावात् । न च स्वकृतकर्मवशाद्धिंसाया भावे हिंसकस्याहिंसकत्वं वैयावृत्त्यकरस्येव कर्मनिर्जराहेतुत्वेन गुणत्वमेव स्यात्, कर्माभावे च निर्विशेषात्सर्व हिंसनीयं भवेदिति वाच्यम् कर्मोदयस्य प्राधान्येन हेतुत्वेऽपि हिंसकस्यापि तत्र निमित्तत्वात् । न च तत्र तस्य निमित्तत्वे वैद्यादीनामपि हिंसाप्रसङ्ग इति वाच्यम् , दुष्टाभिसन्धित्वस्यापि निमित्तत्वादिति ॥