Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 576
________________ व्रतानि ] म्यायप्रकाशसमलङ्कृते : ५२५ : अद्वतीति । अचौरं चौर इत्याक्रोशनमलीकमित्यर्थः । अप्रियमपथ्यश्च व्यवहारतसत्यपि अप्रीतिकारित्वादायतावहितकारित्वात्परमार्थतोऽसत्यम्, एवंविधाद्वचनात्सर्वथा ज्ञानश्रद्धानपूर्वकं विरमणं सत्यव्रतं द्वितीयमित्यर्थः । ननु ऋतशब्दस्सत्यार्थे वर्त्तते सत्सु साधुस्सत्यं प्रत्यवायकारणानिष्पादकत्वात् न ऋतमनृतमसत्यमित्यर्थः, तथा च मिथ्यावचनमसत्यमित्येवोच्यतां लाघवादित्याशङ्कायामाहासत्यमिति, अयं भावो मिध्याशब्दो 5 त्रिपरीतार्थे वर्त्तते तेन भूतनिवाभूतोद्भावनार्थान्तराणामेवासत्यत्वं स्यात् यथा नास्त्यात्मा सर्वंगत आत्मेत्यादिवचनानि यत्तु विद्यमानार्थविषयं व्यवहारतस्सत्यमपि प्राणिपीडाकरं परमार्थतोऽसत्यरूपं गर्हात्मकवचनमसत्यं न भवेदिति न तथोपन्यासः साधुरिति, उदाहरणान्याहाद्यमिति, भूतनिह्नवात्मकमली कमित्यर्थः केचिदात्मनः कर्त्तर्विद्यमानस्यानुभववेद्यस्य शुभाशुभकर्माधारस्यानुभवस्मरणाद्याधारस्य मोहान्नास्तित्वं प्रतिजानते, तेषामभिधानं 10 भूतनिवरूपमिति भावः । अभूतोद्भावनस्य दृष्टान्तमाहात्मेति केचित्स्वरुच्या यथावस्थितमसंख्येयप्रदेशपरिमाणमाश्रयवशात्संकोचविकासधर्माणमरूपरसगन्धस्पर्श मनेक प्रकार क्रियमा त्मानमवधूयाज्ञानबलेन सर्वगतं निष्क्रियमङ्गुष्ठपर्वमादित्यवर्णं प्रमाणशून्यं समुद्भावयन्ति तदेतेषामभिधानमभूतोद्भावनात्मक मनृतमिति भावः । अर्थान्तरं निदर्शयति गवीति, यो गां तुरङ्गमं ब्रवीति तुरङ्गमञ्च गामिति मौढ्याच्छाठयाद्वा वैपरीत्येन तद्वचनमर्थान्तररूपमसत्य- 15 मित्यर्थः । शास्त्रप्रतिषिद्धं कुत्सितं वागनुष्ठानं गर्हा, तामुदाहरति क्षेत्रमिति, हिंसानिवृत्ति - प्रतिबन्धकत्वादस्य वचनस्यासत्यत्वम्, हिंसानिवृत्तिपरिरक्षणार्थं मृषावादादिनिवृत्तेरुपदिष्टत्वात् । काणं प्रति काण इतीति, निष्ठुरवचनमेतत्, तदपि परपीडोत्पादहेतुत्वात्सत्यमपि गर्हितम्, एवं छलदम्भकटुकादिवच सामनृतत्वं भाव्यम् । अत्र च व्रते चतस्रो भाषा द्वाचत्वारिंशद्भेदभिन्नाः सम्यगवबोध्याः, तत्र व्यवहारनयेन सत्या, मृषा, सत्यामृषा, असत्यामृषा 20 चेति चतुर्विधा भाषा । निश्चयनयेन तु सत्यासत्यभेदाद्विधा, आराधकत्व विराधकत्वरूपभेदागुण्यात् । शुद्धनयेन देश सर्वभेदेनाराधाकत्वविराधकत्व भेदाभावात्, एकदा योगद्वयस्य चानभ्युपगमात्, अन्यथा शबलकर्मबन्धप्रसङ्गात् । तत्र सत्यं जनपदसम्मतस्थापनानामरूपप्रतीत्यव्यवहारभावयोगौपम्य सत्यभेदेन दशविधम् । जनपदसत्य नानादेशभाषारूपम्, و १. पुण्यं पापमपि न बुद्धयादिवदात्मगुणः कर्मण आत्मगुणत्वे तस्य पारतंत्र्ये निमित्तं न भवेत् । न हि यो. यस्य गुणः स तस्य पारतंत्र्यनिमित्तं भवति यथा पृथिव्यादे रूपादिः । अभ्युपगम्यते च परैः कर्मात्मगुणमिति । न चात्मनः पारतंत्र्यमसिद्धम् हीनस्थानपरिग्रहवत्त्वात्तत्सिद्धेः । मद्योद्रेकपारतंत्र्येण पुरुषेणाशुचिस्थानपरिग्रहवत् । शरीरं हि हीनस्थानमात्मनो दुःखहेतुत्वात् । न च गुणत्वेऽपि क्रोधादीनां पारतंत्र्यनिमित्तत्वं दृष्टमिति वाच्यम् तेषां पौगलिकत्वेन गुणत्वानुपपत्तेः, भाव क्रोधादीनान्तु न पारतंत्र्यनिमित्तत्वमिति पुण्यपापे द्रव्यरूपे एवेति ॥

Loading...

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676