Book Title: Tattva Nyaya Vibhakar
Author(s): Labdhisuri
Publisher: Labdhisuri Jain Granthmala

View full book text
Previous | Next

Page 538
________________ व्यवहारः] न्यायप्रकाशसमलङ्कृते : ४८७ : श्रीवादिदेवसूरिसूत्रावलम्बनेन व्यवहारनयस्य लक्षणमाह प्रतिषेधपरिहारेण सङ्ग्रहविषयीभूतार्थविषयकविभागप्रयोजकाभिप्रायो व्यवहारनयः । यथा सत्त्वधर्मेणैकतया सङ्गहीतस्य सतो द्रव्यपर्यायाभ्यां विभागकरणाभिप्रायो यत्सत्तद्विधा, द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सङ्गहीतस्य द्रव्यस्य धर्मादिरूपेण षोढा विभागकरणाभिप्रायो 5 यद्रव्यं तद्धर्मोदिरूपेण षोढेति ॥ प्रतिषेधपरिहारेणेति, सुनयीकरणायैतत् । सङ्ग्रहगृहीतान सत्त्वाद्यर्थानुपेक्ष्य तद्विभजनाविषयो योऽभिप्रायस्स व्यवहारनय इत्यर्थः, परसामान्यमवलम्ब्य तद्विभागाभिप्राय निदर्शयति यथेति, अपरसामान्यमवलम्ब्य तमाहैवमिति । " वञ्चइ विणिच्छिअत्थं ववहारो सदधेसु "ति नियुक्तिप्रतीकानुसाराद्विनिश्चितार्थप्रापकत्वं व्यवहारस्य लक्षणं लभ्यते, 10 विशेषेणावह्रियते निराक्रियते सामान्यमनेनेति निरुक्त्यनुसारात् । विनिश्चितार्थप्राप्तिश्वास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति नतु सामान्यम् , गां बधानेत्याधुक्ते गोत्वबन्धनाद्यध्यवसायस्य कस्याप्यनुदयात् । न च कथं गोष्वनुगतव्यवहार इति वाच्यमन्यापोहादिनापि तदुपपत्तेः शब्दानुगमादेवानुगतव्यवहारोपपत्तेश्च । “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार" 15 इति तत्त्वार्थभाष्यानुरोधात्तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती गौणीवृत्त्याऽ. तिशयेन व्यवहारकरः नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवणो यो बोधस्स व्यवहार इति तदर्थः, उपचारबहुलाध्यवसायवृत्तिनयत्वव्याप्यजातिमत्त्वन्तु लक्षणम् । उपचाराधिक्यं यथा गिरिदह्यते, अध्वा याति, कुण्डिका स्रवति, इत्यादौ प्रथमे गिरिपदस्य गिरिस्थतृणादौ लक्षणा, अतिशयदग्धत्वप्रतीतिः फलं द्वितीये मार्गगन्तृपुरुषसमुदाये लक्षणा नैरन्तर्यप्रतीतिः फलं, 20 तृतीये कुण्डिकास्थोदके लक्षणाऽनिबिडत्वप्रतीतिः प्रयोजनमित्येवं भाव्यम् । लक्ष्यार्थे मुख्यार्थप्रतीतिश्चाभेदाध्यवसायात् । विशेषप्राधान्यादेवायं विस्तृतार्थः, प्रधानता च १. यथा सत्यपि पश्चवर्णादौ भ्रमरे कृष्णवर्ण एव लोकस्य निश्चयो भवति तस्माद्विनिश्चितार्थप्रापको व्यवहारनयः तस्यैव गमकत्वात्प्ररूपकत्वाच्च, स एव हि लोकव्यवहारानुकूलतया स्पष्टतमः, तस्माच्छेषवर्णादीनयं नयो मुञ्चतीति विनिश्चितार्थप्रापकत्वमस्य बोध्यम् ॥ २. उपचारबहुलाध्यवसायत्वमात्रस्य लक्षणत्वेऽनुपचरितव्यवहारेऽव्याप्तिरिति नयत्वव्याप्यजातिमत्त्वमुक्तं, तावन्मात्रस्य नैगमसङ्ग्रहादावपि सत्त्वाद्वत्त्यन्तम् , अत एव नयत्ववत्त्वमुपक्ष्य नयत्वव्याप्यजातिमत्त्वमुक्तं. क्वाचित्कोपचाराध्यवसायमादाय नैगमाद्यतिव्याप्तिवारणाय बहुलेति ॥ ३. ननु गिरिस्थतृणादिमार्गगन्तपुरुषसमुदायकुण्डिकास्थजलादी गिरिमार्गकुण्डिका- . दिमुख्यार्थप्रतीतिः कथमित्यत्राह लक्ष्यार्थ इति ॥

Loading...

Page Navigation
1 ... 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676