________________
व्यवहारः] न्यायप्रकाशसमलङ्कृते
: ४८७ : श्रीवादिदेवसूरिसूत्रावलम्बनेन व्यवहारनयस्य लक्षणमाह
प्रतिषेधपरिहारेण सङ्ग्रहविषयीभूतार्थविषयकविभागप्रयोजकाभिप्रायो व्यवहारनयः । यथा सत्त्वधर्मेणैकतया सङ्गहीतस्य सतो द्रव्यपर्यायाभ्यां विभागकरणाभिप्रायो यत्सत्तद्विधा, द्रव्यं पर्यायश्चेति । एवं द्रव्यत्वेन सङ्गहीतस्य द्रव्यस्य धर्मादिरूपेण षोढा विभागकरणाभिप्रायो 5 यद्रव्यं तद्धर्मोदिरूपेण षोढेति ॥
प्रतिषेधपरिहारेणेति, सुनयीकरणायैतत् । सङ्ग्रहगृहीतान सत्त्वाद्यर्थानुपेक्ष्य तद्विभजनाविषयो योऽभिप्रायस्स व्यवहारनय इत्यर्थः, परसामान्यमवलम्ब्य तद्विभागाभिप्राय निदर्शयति यथेति, अपरसामान्यमवलम्ब्य तमाहैवमिति । " वञ्चइ विणिच्छिअत्थं ववहारो सदधेसु "ति नियुक्तिप्रतीकानुसाराद्विनिश्चितार्थप्रापकत्वं व्यवहारस्य लक्षणं लभ्यते, 10 विशेषेणावह्रियते निराक्रियते सामान्यमनेनेति निरुक्त्यनुसारात् । विनिश्चितार्थप्राप्तिश्वास्य सामान्यानभ्युपगमे सति विशेषाभ्युपगमात् जलाहरणाद्युपयोगिनो घटादिविशेषानेवायमङ्गीकरोति नतु सामान्यम् , गां बधानेत्याधुक्ते गोत्वबन्धनाद्यध्यवसायस्य कस्याप्यनुदयात् । न च कथं गोष्वनुगतव्यवहार इति वाच्यमन्यापोहादिनापि तदुपपत्तेः शब्दानुगमादेवानुगतव्यवहारोपपत्तेश्च । “लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार" 15 इति तत्त्वार्थभाष्यानुरोधात्तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणपक्षपाती गौणीवृत्त्याऽ. तिशयेन व्यवहारकरः नानाव्यक्तिकशब्दसङ्केतग्रहणप्रवणो यो बोधस्स व्यवहार इति तदर्थः, उपचारबहुलाध्यवसायवृत्तिनयत्वव्याप्यजातिमत्त्वन्तु लक्षणम् । उपचाराधिक्यं यथा गिरिदह्यते, अध्वा याति, कुण्डिका स्रवति, इत्यादौ प्रथमे गिरिपदस्य गिरिस्थतृणादौ लक्षणा, अतिशयदग्धत्वप्रतीतिः फलं द्वितीये मार्गगन्तृपुरुषसमुदाये लक्षणा नैरन्तर्यप्रतीतिः फलं, 20 तृतीये कुण्डिकास्थोदके लक्षणाऽनिबिडत्वप्रतीतिः प्रयोजनमित्येवं भाव्यम् । लक्ष्यार्थे मुख्यार्थप्रतीतिश्चाभेदाध्यवसायात् । विशेषप्राधान्यादेवायं विस्तृतार्थः, प्रधानता च
१. यथा सत्यपि पश्चवर्णादौ भ्रमरे कृष्णवर्ण एव लोकस्य निश्चयो भवति तस्माद्विनिश्चितार्थप्रापको व्यवहारनयः तस्यैव गमकत्वात्प्ररूपकत्वाच्च, स एव हि लोकव्यवहारानुकूलतया स्पष्टतमः, तस्माच्छेषवर्णादीनयं नयो मुञ्चतीति विनिश्चितार्थप्रापकत्वमस्य बोध्यम् ॥ २. उपचारबहुलाध्यवसायत्वमात्रस्य लक्षणत्वेऽनुपचरितव्यवहारेऽव्याप्तिरिति नयत्वव्याप्यजातिमत्त्वमुक्तं, तावन्मात्रस्य नैगमसङ्ग्रहादावपि सत्त्वाद्वत्त्यन्तम् , अत एव नयत्ववत्त्वमुपक्ष्य नयत्वव्याप्यजातिमत्त्वमुक्तं. क्वाचित्कोपचाराध्यवसायमादाय नैगमाद्यतिव्याप्तिवारणाय बहुलेति ॥ ३. ननु गिरिस्थतृणादिमार्गगन्तपुरुषसमुदायकुण्डिकास्थजलादी गिरिमार्गकुण्डिका- . दिमुख्यार्थप्रतीतिः कथमित्यत्राह लक्ष्यार्थ इति ॥