________________
:४८८ : तस्वन्यायविभाकरे
[ नवमकिरणे व्यक्तिष्वेवोपयुक्ततया सङ्केताद्याश्रयणात् । वस्तुतः पञ्चवर्णद्विगन्धपश्चरसाष्ठस्पर्शशरीरवतो भ्रमरादेश्श्यामत्वादिनैव निश्चयनादसौ लौकिकः, लोकैः कृष्णवर्णत्वेनैवास्याङ्गीकारात्, उद्भूतवर्णविवक्षयैवाभिलापादिव्यवहारप्रवृत्तेः कृष्णो भ्रमर इत्यादेरनुद्भूतत्वेनेतरवर्णाविव
क्षणान्न भ्रान्तत्वम् , तात्पर्यज्ञं प्रति प्रामाण्याल्लोकव्यवहारानुकूलविवक्षाप्रयुक्तत्वाचास्य 5 भावसत्यत्वं, पीतो भ्रमर इत्यादीनान्तु न तथा, लोकव्यवहाराननुकूलत्वात् , नापि निश्चयतोऽ
स्य भावसत्यत्वं पञ्चवर्णपर्याप्तिमति पञ्चवर्णप्रकारकत्वाभावेनावधारणाक्षमत्वात् । ननु पञ्चवर्णो भ्रमर इत्यादिवाक्यानां कथं न व्यवहारनयानुरोधित्वं तस्यापि व्यवहारानुगुण्यात्, आगमप्रतिपादितार्थेऽपि व्युत्पन्नानां व्यवहारोपलब्धेः, न च लोकेनास्य वाक्यस्य बाधितार्थविषयकत्वेन न व्यवहारानुरोधित्वमिति वाच्यम् आत्मा न रूपवानित्यादिवाक्यस्यापि 10 अव्यवहारकत्वापत्तेः,आत्मगौरत्वादिबोधकलोकप्रमाणबाधितार्थबोधकत्वात् , अभ्रान्तलोकस्य
विवक्षणे चोभयत्र साम्यमेवेति चेन्न पञ्चवर्णो भ्रमर इत्यादौ कृष्णेतरवाशे व्यावहारिकविषयताया अभावात् , तत्तन्नयाभिप्रायप्रयुको हि शब्दः, तत्र तन्नयीयविषयतैव शाब्दबोधिका, ततो नोक्तव्यवहार इति ।।
अथर्जुसूत्रं स्वरूपयति15 द्रव्यं गौणीकृत्य प्राधान्यतया वर्तमानक्षणवृत्तिपर्यायमात्रप्रदर्शना
भिप्रायविशेष ऋजुसूत्रः । यथा सम्प्रति सुखपर्यायोऽस्ति दुःखपर्यायोऽस्ति द्वेषपर्यायो वास्तीत्यभिप्रायाः। अत्र हि सदप्यात्मद्रव्यं नाप्यते सुखादिपर्यायास्तु प्रधानेन प्रकाश्यन्ते ॥
द्रव्यमिति, ऋजु-अवर्क सूत्रयति गमयत्यभ्युपगच्छतीति ऋजुसूत्रः अतीतानागतयोः 20 पर्याययोर्विनाशानुत्पत्तिभ्यामभावेन तदभ्युपगमे कुटिलत्वं ततस्तत्परिहारेण परोपकारप्रव
णवार्तमानिकपर्यायप्ररूपणमेवाकुटिलं प्ररूपणमिति ऋजुसूत्रशब्दभावः, तदेवाह द्रव्यं गौणीकृत्येति नयत्वरक्षायै विशेषणमिदम् , अस्य मते भावत्वं वर्तमानत्वव्याप्यम् , तथाहि विनष्टत्वादतीतस्यानागतस्यालब्धात्मलाभत्वात् अविशिष्यमाणतया च सकलशक्तिविकलरूपत्वात्
१. एवशब्देन सामान्यस्य संकेलजप्रतीत्यविषयत्वं सूचितम् शब्दानां हि सामान्ये संकेतोऽनुपयुक्तः, घटमानयत्यादिवाक्यात् शाब्दबोधानुत्पत्तिप्रसङ्गात् नहि घटत्वस्यानयनं सम्भवति, अमूर्तत्वादिति भावः ॥ २. तत्तन्नयाभिप्रायप्रयुक्तो हि शब्दः, तथा च पञ्चवर्णो भ्रमर इति शब्दाभिलापो निश्चयनयेन, अतः प्रोक्ताभिलापजन्यशाब्दबोधे कृष्णेतररूपांशे न व्यावहारिकी विषयताऽस्ति लोकव्यवहाराननुगुणत्वात् किन्तु तत्र नैश्चयिकी विषयतैव कृष्णांशे तूभयविषयतेति भावः ।।