________________
न्यायप्रकाशसमलते अर्थक्रियानिर्वर्तनाक्षमत्वेनावस्तुत्वाच्च, वर्तमानक्षणालिङ्गितस्यैव सकलार्थक्रियासु व्याप्रियमाणत्वेन. तदेव पारमार्थिकं वस्त्विति, तथा च शब्दाद्यभिमतविशेषापक्षपातिवर्तमानत्वमात्रव्याप्तभावविषयकाभिप्रायः ऋजुसूत्र इति भावार्थः । शब्दादिनयेषु व्यभिचारवारणाय शब्दाद्यभिमतविशेषापक्षपातीति पदम् । अत्र द्रव्यस्य गौणत्वं वर्तमानपर्यायस्य प्राधान्यञ्च, तत्रैव संकेतार्थक्रियादिसंभवात् , एकावस्थापन्ने द्रव्ये भिन्नावस्थासम्बन्धासम्भवात् विभि- 5 नकालिकपर्यायद्वयाधारपदार्थाभावाच्च, सिद्धावस्थासाध्यावस्थयोरेकत्र विरोधात् , यथा पलालं न दहति वह्निः, घटो न भिद्यते, असंयतो न प्रव्रजति, असिद्धो भव्यो न सिद्ध्यतीत्यादौ दहनादिक्रियाकाल एव तन्निष्ठाकालः, अतस्तदवस्थाविलक्षणपलालाद्यवस्थावता समं दहनादिक्रियान्वयो न युज्यते दह्यमानादेर्दग्धत्वाद्यव्यभिचारात् । अत एवैते निषेधात्मका व्यवहारा उपपद्यन्ते, विधिरूपास्तु अपलालं दह्यते, अघटो भिद्यते, संयतः प्रव्रजति, सिद्धस्सिद्ध्यती- 10 त्येवंरूपाः । न चात्र नये कृतकरणापरिसमाप्तिर्दोषः स्यात् सिद्धस्यापि साध्यमानत्वेन करणव्यापारानुपरमादिति वाच्यम् , उत्पाद्य कार्य क्रियोपरमेण तत्समाप्तेः । न च यादृश- . व्यापारावच्छिन्नदण्डादेर्घटोत्पत्त्यव्यवहितपूर्ववृत्तित्वं तादृशव्यापारावच्छिन्नस्य तस्य तदुत्पत्यनन्तरमपि सत्त्वे तदुत्पत्तिप्रसङ्ग इति वाच्यम् , तदानीं सूक्ष्मक्रियाविरहकरुपतात्, न च घटोत्पत्तेः पूर्व तत्क्रियायाः सत्त्वे तदापि तदुत्पत्तिप्रसङ्गः असत्त्वे च कार्याव्यवहितपूर्ववृत्ति- 15 स्वाभावेन कारणत्वाभावप्रसङ्ग इति वाच्यम् , कार्यव्याप्यतावच्छेदकपरिणामविशेषरूपायाः कारणतायाः कार्यसहवृत्तितानियमात् , ननु यदि क्रियमाणः कृत एव चक्रभम्याग्रुपलक्षितदीर्घक्रियाकाले कुतो न घटो दृश्यत इति चेन्न, घटानुकूलव्यापारलक्षणक्रियाया दीर्घकालत्वासिद्धेः चरमसमय एव तदभ्युपगमात् , घटविषयकोत्कृष्टाभिलाषेणैव मृन्मर्दनाद्यान्तरालिककार्यकरणवेलायां घटं करोमीति व्यवहारात् , कृतस्यैव करणे न क्रियावैफल्यमपि, क्रिययैव 20 निष्ठां जनयित्वा कार्यस्य कृतत्वोपपादनात् । न चान्योऽन्याश्रयः, कृतस्यैव क्रियाजन्यत्वात् कृतमेव च क्रियां जनयति नाकृतमसस्वादिति वाच्यम् , घटत्वादिनैव क्रियायाः कार्यकारणभावात् , अर्थादेव तस्य कृतत्वोपपत्तेः । क्रियमाणस्य कृतत्वाभावे च क्रियासमये कार्याभावे
१. यथा हि व्यवहारनयो व्यवहाराननुकूलत्वान्न सहते सामान्यं तथा ऋजुसूत्रनयोऽपि अतीतमनागतंञ्च पर्यायं परकीयत्वान्न सहते, · अभिधानमपि तथाविधार्थवाचकं ज्ञानमपि तथाविधार्थविषयं न सहते स्वदेशकालयोरेव सत्ताविश्रामात् तथा च यद्वर्त्तमानकालीनं वस्तु यच्च तस्यात्मीयं रूपं तदेतदुभयमेवास्य नयस्याभिमतमिति भावः ॥ २. घटोत्पत्त्यनुकूलसूक्ष्मक्रियाविरहकल्पनादित्यर्थः ॥ ३. घटं प्रति क्रिया कारणं नतु कृतघटं प्रति, येनान्योऽन्याश्रयः स्यात् तथा च कार्यतावच्छेदके कृतत्वं न प्रवेश्यते, तत्र कृतत्वस्य लाभश्च कारणसमाजाधीनः, यथा नीलघटत्वं न कपालादिकार्यतावच्छेदकं किन्तु नेल्यसामग्याः घटसामग्याश्च
.
. . . .
. . .
.
समाजात् नीलघटो भवति तथेति भावः॥ .....६२....