________________
तत्वन्यायविमाकरे ततः पूर्व पश्चाच्च तन्न स्यादेव, कारणाभावात् । सामग्र्याः स्वसमये कार्यव्याप्यत्वाभावेऽपि अव्यवहितोत्तरसमयावच्छेदेन तद्व्याप्यत्वोपगमान्न दोष इति चेन्नाव्यवहितोत्तरत्वप्रवेशे गौरवेणोत्तरत्वमात्रप्रवेशे व्यवहितोत्तरकालावच्छेदेन कार्योत्पत्तिप्रसङ्गेन च स्वसमयावच्छेदे
नैव सामग्र्याः कार्यव्याप्यत्वोपगमस्योचितत्वात् । कारणाभावस्य कार्याभावव्याप्यत्वेन 5 कारणोत्तरकाले कार्यासिद्धेश्चेति दिक् । सङ्ग्रहसम्मतं सामान्यमनुपयोगादनुपलम्भाञ्च व्यवहारनयेन यथा नेष्यते तथैव स्वप्रयोजनासाधकत्वेन परधनवनिष्फलमतीतमनागतं वस्तु ऋजुसूत्रेण नेष्यते किन्तु साम्प्रतकालीनमेव लिङ्गवचनभिन्नमपि वस्तु स्वीक्रियते तत्रैकमपि त्रिलिङ्गं यथा तटस्तटी तटमित्यादि । तथैकमप्येकवचनबहुवचनवाच्यं यथा गुरुर्गुरवः, आपो
जलं, दाराः कलत्रमित्यादि, एवमिन्द्रादेर्नामस्थापनाद्रव्यभावरूपचतुर्भेदमपीष्यते, सोऽयं नयो 10 द्विभेदस्सूक्ष्मस्थूलभेदात् सूक्ष्मस्तु क्षणिकपर्यायं मनुते पर्यायाणां स्ववर्तमानतायां क्षणावस्था
यित्वस्यैवोचितत्वात् परतोऽवस्थान्तरभेदादिति, स्थूलस्तु मनुष्यादिपर्यायं वर्तमानं मनुते, न त्वतीतानागतादिनारकादिपर्यायम् । व्यवहारेण तत्स्वीकारादेतदपेक्षया स्थूलत्वमिति । अथर्जुसूत्रस्य दृष्टान्तमाह यथेति, वाक्येन ह्यनेन क्षणस्थायिसुखाख्यं पर्यायमानं प्राधा
न्येन प्रदर्श्यते तदधिकरणभूतमात्मद्रव्यन्तु गौणतया नायंत इत्याशयमाहात्र हीति 15 आदिना दुःखादिपरिग्रहः ॥
अथ शब्दनयमुपदर्शयन्नाह
कालकारकलिङ्गसंख्यापुरुषोपसर्गाणां भेदेन सन्तमप्यभेदमुपेक्ष्यार्थभेदस्य शब्दप्राधान्यात्मदर्शकाभिप्रायविशेषरशब्दनयः॥
कालेति । कालादीनां भेदेन द्रव्यरूपतया विद्यमानमप्यभेदमुपेक्ष्य गौणीकृत्य शब्द20 भेदप्राधान्यप्रयुक्तार्थभेदप्रज्ञापकाभिप्रायविशेषश्शब्दनय इत्यर्थः । अयमत्र भावः, ऋजुसूत्रा
पेक्षयाय विशेषिततरः, अयं हि पृथुबुध्नोदरायाकारविशिष्टं मृन्मयं जलाहरणादिक्रिया. समर्थ प्रसिद्धं भावघटमेवेच्छति न शेषान्नामस्थापनद्रव्यरूपांस्त्रीन् घटान् नवा विभिन्नकालकारकादिविशिष्टशब्दवाच्यानामेकत्वम्, शब्दप्रधानो ह्येष नयः, चेष्टालक्षणश्च घट.
शब्दार्थः घटत इति घटो घटचेष्टायामिति धातुना व्युत्पन्नत्वात् । ततश्च य एव जला25 हरणादिक्रियार्थ प्रसिद्धो घटस्तमेव भावरूपं घटमिच्छत्यसौ तत्रैव शब्दार्थोपपत्तेः, न तु
नामादिघटान् घटशब्दोऽभिधत्ते शब्दार्थानुपपत्तेः, तथा घटं घटेनेत्यादीनामपि भिन्नार्थत्वं द्वितीयाविशिष्टघटशब्दस्य तृतीयादिविशिष्टघटशब्दस्यान्यत्वात् तथा च नामस्थापनाद्रव्यरूपा घटा न भवन्ति, जलाहरणादितत्कार्याकरणात् पटादिवत्, तथा प्रत्यक्षविरोधात्