________________
शन्दः ]
न्यायप्रकाशसमलते घटलिङ्गादर्शनाच, अघटरूपास्ते प्रत्यक्षेणैव दृश्यन्ते इति प्रत्यक्षविरोधः, जलाहरणादिकं घटलिङ्गश्च तेषु न दृश्यत इत्यनुमानविरोधोऽपि, न च कथं ते नामादिघटव्यपदेशभाज इति वाच्यम् , अनिष्टत्वात् यथाहि ऋजुसूत्रस्यातीतानागताः कुम्भा नेष्टाः प्रयोजनाभावात्तथानामादयोऽपि तुल्यत्वादिति ॥ . अथ क्रमेण कालादीनां दृष्टान्तानुपदर्शयति
5 यथा बभूव भवति भविष्यति सुमेरुरिति कालभेदेन सुमेरुभेदं, करोति कुम्भः क्रियते कुम्भ इत्यादौ कर्तृत्वकर्मत्वरूपकारकभेदात्कुम्भभेदं, पुष्यस्तारका इत्यादौ लिङ्गभेदेनार्थभेदं, आपोम्भ इत्यादौ संख्याभेदेन जलस्य भेदं, एहि मन्ये रथेन यास्यसि नहि यास्यसि यातस्ते पितेत्यादौ मध्यमोत्तमरूपपुरुषभेदेनार्थभेदं, सन्तिष्ठतेऽवतिष्ठत इत्यादा- 10 वुपसर्गभेदेन चार्थभेदं प्रतिपादयति शब्दनयः, कालादिप्राधान्यात्, अभेदं पुनर्न तिरस्करोति, अपि तुगौणीकरोति । पर्यायभेदे तु नार्थभेदमभ्युपैति नयोऽयम् ॥ ..
यथेति । सुमेरुभेदमिति, प्रतिपादयतीत्यप्रेतनेन सम्बद्ध्यते एवमप्रेऽपि। भूतभविष्यद्वर्त्तमानरूपकालत्रयभेदेन सुमेरोभेदं शब्दनयः प्रतिपद्यते, कालभेदादप्यर्थस्याभेदप्रति- 15 शाने रावणशंखचक्रवर्तिनोरप्यतीतानागतकालयोरेकत्वापत्तेरिति भावः । कारकभेदप्रयुक्तार्थभेदस्य दृष्टान्तमाह करोतीति, अत्र कारकयोः कर्तृकर्मणोर्मेंदाद् घटस्य भेदः, जलाहरणाद्यर्थक्रियानिरूपितकर्तृत्वस्य कुम्भकारनिरूपितकर्मत्वस्य च भानात् । न च यः कर्ता स एव कर्मातिप्रसङ्गात् तस्मात्कर्तृकर्मस्वभावौ घटस्य भिन्नावभ्युपगमनीयाविति भावः । लिङ्गभेदप्रयुक्तार्थभेदमुदाहरति पुष्यस्तारका इति, पुंस्त्रीलिङ्गयोर्भेदेनार्थभेदा, अन्यलिङ्ग- 20 वृत्तेश्शब्दस्यान्यलिङ्गभेदलक्षणेन वैधयेणार्थभेदस्य कान्तः कान्तेत्यादिषु स्पष्टमनुभवादिति भावः। संख्याभेदप्रयुक्तार्थभेदं निदर्शयति आपोऽम्भ इति अत्र बहुत्वैकत्वसंख्ययो देन जलस्य भेदं शब्दनयः प्रतिजानीतेऽन्यथा पटस्तन्तव इत्येत्राप्येकत्वप्रतीत्यापत्तेः संख्याभेदाविशेषात् । पुरुषभेदनिबन्धनार्थभेदनिदर्शनमादर्शयति एहि मन्य इति, अत्र युष्मदस्मवाख्ययोः पुरुषयोर्भेदादर्थस्य भेदं शब्दनयः स्वीकुरुते अन्यथाऽहं पचामि त्वं 25 पचसीत्यादावपि पुरुषभेदेऽपि एकार्थत्वप्रसङ्गात् । उपसर्गभेदनिदानार्थभेददृष्टान्तमाविष्करोति सन्तिष्ठत इति, अत्राप्युपसर्गभेदादर्थभेदं मनुते शब्दनयो विहरत्याहरतीत्यादाविव । अन्यथा तिष्ठति प्रतिष्ठत इत्यादावपि स्थितिगतिक्रिययोरभेदप्रसनः स्यादिति भावः । अयं तत्र तत्र