________________
: ४९२ :
तत्त्वन्यायविभाकरे
[ नवमकिरणे
तेषां प्राधान्यमेव कालादिकमाश्रित्य स्वीकरोति न तु द्रव्यरूपतयाऽनुगामिनमभेदं न्यक्कुरुते, अन्यथा दुर्नयत्वापत्तेरित्याह कालादिप्राधान्यादिति । लिङ्गादिभेदेनार्थभेदाभ्युपगमादेवर्जुसूत्रादस्य विशेषता ख्यापिता तथापि समभिरूढाद्विशेषं द्योतयितुमाह पर्यायभेदे त्विति, घटकुम्भादिपर्यायशब्दभेदे तु नार्थभेदोऽस्य सम्मतः, समभिरूढस्य तु स इष्ट इत्यनयो5 वैलक्षण्यमिति भावः ॥
अथ समभिरूढस्वभावमाविर्भावयति
निर्वचनभेदेन पर्यायशब्दानां विभिन्नार्थताभ्युपगमाभिप्रायः समभिरूढः । यथेन्दनादिन्द्रः, शकनाच्छक्रः, पूर्वारणात्पुरन्दर इत्यादयः । अत्र हि परमैश्वर्यवत्त्वसमर्थत्वासुरपुरवि भेदकत्वरूपप्रवृत्तिनिमित्तमा10 श्रित्यैषां शब्दानां विभिन्नार्थत्वाभ्युपगमोऽस्य नयस्य विषयः । अत्राव्यभेदस्य न निरासः ॥
निर्वचनेति । वाचकं वाचकं प्रति वाच्यभेदं समभिरोहयत्याश्रयति यः स समभिरूढः । निरुक्तिभेदेन पर्यायशब्दानामिन्द्रशक्रपुरन्दरादिशब्दानामर्थगताभेदोपेक्षया भिन्नर्थाभ्युपगमाभिप्राय इत्यर्थः । तथा चैवंभूतभिन्नत्वे सति संज्ञाभेदनियतार्थ भेदाभ्युपगन्तृत्वं समभिरूढस्य लक्षणम् । अत्र व्याप्तेर्विवक्षणाद् घटपटसंज्ञाभेदेनार्थभेदाभ्युपगन्तरि नैगमादौ नातिव्याप्तिः । कालादिभिर्भिन्नानामर्थानां भवति भविष्यतीत्यादिध्वनिभेदाच्छब्दनयस्य भेदोऽभिमतस्तर्हि घटकुम्भादिशब्दवाच्यानामपि कथं भेदो नेष्टो ध्वनिभेदस्यात्रापि तुल्यत्वात्, विभिन्नलिङ्गवचनादिशब्दवाच्यत्वस्यार्थ भेदप्रयोजकत्वापेक्षया तत्र विभिन्नशब्दवाच्यत्वस्य प्रयोजकत्वे लाघवाच्च, नहि शब्दान्तरवाच्यं वस्तु शब्दान्तरवाच्यार्थरूपतामेति, 20 अन्यथा घटादौ पटाद्यर्थसंक्रमे किमयं घटः पटादिर्वा इति संशयो विपर्ययो वा भवेत् घटादावपि पटादिनिश्चयात् पटादौ वा घटाध्यवसायादेकत्वं घटपटाद्यर्थानां प्राप्नुयात् मेचकम
+
15
.
१. रूढ्या हि यावन्तश्शब्दाः कस्मिंश्चिदर्थे प्रवर्त्तन्ते तेषां सर्वेषामपि शब्दानामयं नय एकमर्थमभिप्रति यथा-घटकुटकलशकुम्भादयः, एभिर्हि एक एवार्थः प्रतीयते, यथा शब्दाव्यतिरेकोऽर्थस्य तथैव तस्यैकत्वं वा शब्दभेदेन नैकत्वं वा प्रतिपादनीयं, न च घटकुटकलशादयः पर्यायशब्दा विभिन्नार्थवाचितया कदाचन प्रतीयन्ते, तेभ्यस्सर्वदा एकाकार परामर्शोत्पत्तेः अस्खलद्वृत्तितया तथैव व्यवहारदर्शनात् । तस्मादेक एव पर्याय - शब्दानामर्थ इति भावः ॥ २. यत्र यत्र संज्ञाभेदस्तत्र तत्रार्थभेद इति नियमः, अयञ्च नियम एवम्भूतेऽप्यस्तीति तद्भिन्नत्वे सतीत्युक्तं, तथा च यथा घटः घटान्यपटशब्दावाच्यः तथैव घटान्यकुटादिशब्दावाच्योऽपि, एवं कुटः कुटान्य घटशब्दावाच्य इत्येवं शब्दभेदार्थभेद इति भावः ॥