________________
एवम्भूतः ] न्यायप्रकाशसमलते
:४९३: णिवत्सङ्कीर्णरूपता वा घटपटाद्यर्थानां भवेत् , तथा च घटकुम्भकलशादिशब्दवाच्यानामर्थानां परस्परं भेद उचितः, वाचकध्वनिभेदात् , घटपटस्तम्भादिशब्दवाच्यार्थवदिति प्रयोगः । न च नानार्थेकशब्दवाच्यानामर्थानां भेद इव भिन्नशब्दवाच्यानामपि भेदो न भवेदिति वाच्यम्, भिन्नशब्दवाच्यत्वस्यार्थभेदव्याप्यत्वात् , नहि व्याप्यस्याभावात्कचिदपि व्यापकस्याभाव इष्टः, तस्मान्नानार्थस्थले शब्दभेदादर्थभेदाभावेऽपि लक्षणस्वरूपादिभेदाढ़ेदो भवि- 5 प्यति, न बर्थभेदे प्रतिनियतमेकमेव प्रयोजकं, भिन्नशब्दवाच्यतया तु. भिन्नकालवृत्तितयेवार्थभेदो ध्रुव एव । 'यदि भिन्नशब्दवाच्यत्वमर्थभेदव्यापकं भवेत्तदा व्यापकाभावाद्व्याप्याभावो भवदुक्तस्सङ्गच्छेत तदेव नेष्टमिति । न चास्य मते शब्दभेदादेव यद्यर्थभेदस्तदा व्युत्पत्तिनिमित्तमेव .प्रवृत्तिनिमित्तमित्यायातं तथा च डित्थडवित्थादिपारिभाषिकसंज्ञा न भवेयुः, तेषामिच्छामात्रनिमित्तत्वेन यथास्थितव्युत्पत्तिनिमित्ताभावादिति वाच्यम् , इष्टा. 10 पत्तेः, शब्दार्थस्य स्वाभाविकधर्मनिबन्धनत्वात् तत्रेच्छाया अनिबन्धनत्वात् तस्मादिच्छाविशिष्टशक्त्यभावात्तेषामबोधकत्वमेवेति; एवं घटादेः कुम्भकलशादिकमेतन्मते पर्यायवचनं नास्त्येव, एकस्मिन्नर्थेऽनेकशब्दप्रवृत्त्यनभ्युपगमादिति । अथ समभिरूढनयं दृष्टान्तयति. यथेति, तथा च परमैश्वर्यशालित्वमिन्द्रशब्दस्य, सामर्थ्य शक्रशब्दस्य, असुरपुरविभेदनं पुरन्दरशब्दस्य प्रवृत्तौ निमित्तं स्फुटमिति निरुक्तिभेदतः पर्यायवाचिशब्दानां भिन्नार्थत्वम् , 15 प्रयोगश्च पर्यायशब्दा विभिन्नार्थाः प्रविभक्तव्युत्पत्तिनिमित्तकत्वात् , इह ये ये प्रविभक्तव्युत्पत्तिनिमित्तकाः नैतेऽभिन्नार्था यथा इन्द्रघटपुरुषादिशब्दाः विभिन्नव्युत्पत्तिनिमित्तकाश्च पर्यायशब्दा अपि, अतो भिन्नार्था इति । यत् पुनरविचारितप्रतीतिबलादेकार्थाभिधायकत्वं तत्त्वतिप्रसङ्गेन न युक्तम् , युक्तिरिक्तप्रतीतिशरणीकरणे हि मन्दप्रकाशे दवीयसि देशे सन्निविष्टविभिन्नशरीराणामपि निम्बकदम्बाश्वत्थकपित्थादीनामेकतर्वाकारतया 20 प्रतीयमानानामेकत्वाभ्युपगमप्रसङ्गः स्यादिति पर्यायशब्दानां भिन्नार्थत्वमेवेत्याशयेनाहात्र हीति । तेभ्यः सर्वदैवैकाकारपरामर्शोत्पत्त्याऽस्खलद्वृत्तितया तथैव व्यवहाराच्च पर्यायशब्दार्थानामभेदं गौणीकरोति नयोऽयमित्याशयेनाहात्रापीति ।। · अथैवम्भूतनयमुपपादयितुमाह
तत्तक्रियाविधुरस्यार्थस्य तत्तच्छब्दवाच्यत्वमप्रतिक्षिपन् स्वस्वप्रवृ- 25 त्तिनिमित्तक्रियाविशिष्टार्थाभिधायित्वाभ्युपगमः एवम्भूतनयः। यथा
१. न ह्यर्थभेदे शब्दभेद एक एव प्रयोजको येन नानार्थस्थले शब्दभेदाभावादभेद आपद्येतेति भावः ॥